SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५६] (०३) प्रत सूत्रांक [७५४-७५६] एमए दस आहिया ॥२॥" इति [धन्यश्च सुनक्षत्रः ऋषिदासश्चाख्यातः पेल्लको रामपुत्रश्चंद्रमाः प्रोष्ठक इति ॥१॥ पेढालपु-1 दावोऽनगारः पोट्टिलश्च विहलः दशम उक्तः एवमेते आख्याता दश ॥२॥] तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनवि-18 Mभाग उको न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यकसुनक्षत्रकथानके एवं-काकन्यां नगर्यो भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रवजितः षष्ठोपवासी उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्दशानां श्रमणसहस्राणां मध्येऽतिदुष्करकारक इति महावीरेण व्याहृतस्तेन च राज्ञा सभक्तिकं वन्दित उपबृंहितश्च कालं च कृत्वा सर्वार्थसिद्धविमान उसन्न इति, एवं सुनक्षत्रोऽपीति, कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिकः श्रमणोपासको जितशत्रुराजस्याभियोगाच्च परिव्राजकस्य मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यां प्रतिपन्नवान द्वादशाङ्ग-18 धरो भूत्वा शक्रत्वेनोसन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेखूपपन्न इति, 'शालिभद्र इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत् , सबहुमानं च साधवे पायसमदात् , राजगृहे गोभद्रवेष्ठिनः पुत्रत्वेनो पन्नो, देवीभूतगोभद्रवेष्ठिसमुपनीतदिव्य भोजनवसनकुसुमविलेपनभूषणादिभि गाडैरङ्गनानां द्वात्रिंशता सह सप्त-18 है भूमिकरम्यहऱ्यातलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां पादप्रोञ्छनीकृताश्चेतिश्रवणाज्जातकुतूहले दर्शनार्थ गृहमागते श्रेणिकमहाराजे जनन्याऽभिहितो-यथा त्वां स्वामी द्रष्टुमिच्छतीत्यवतर प्रासादशृङ्गात् स्वामिनं पश्येतिवचनश्श्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम 8 गाथा: दीप अनुक्रम [९६६ -९७६] ET पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~452~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy