________________
आगम
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५६]
(०३)
प्रत
सूत्रांक
[७५४-७५६]
LOC
साविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून उपासते-सेवन्त इत्युपासका:-श्रावकास्तगतक्रियाकलापप्रतिबद्धाः दशा-दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति, तथा अन्तो-विनाशः स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृद्दशाः, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीतिमा तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममनमभिहितं, तथा उत्तर-प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः उपपतनमुपपातो जन्मेत्यर्थः अनुत्तरश्चासाचुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिख्या| दिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिवद्धा दशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवममङ्गमिति, तथा चरणमाचारो ज्ञानादिविषयः पश्चधा आचारप्रतिपादनपरा दशा-दशाध्ययनात्मिका आचारदशा, दशाश्रुत-14 स्कन्ध इति या रूढाः, तथा प्रश्नाच-पृच्छा व्याकरणानि च-निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशाः-दशाध्ययनामिकाः प्रश्नव्याकरणदशाः दशमममिति, तथा बन्धदशाद्विगृद्धिदशादीर्घदशासङ्गेपिकदशाश्चास्माकमप्रतीता | इति । कर्मविपाकदशानामध्ययनविभागमाह-कम्मे'त्यादि, 'मिगे'त्यादि श्लोकः सार्द्ध, मृगा-मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रा, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनर
मवलोक्य पृष्टो-भदन्त ! अन्योऽपीहास्ति जात्यन्धो?, भगवांस्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश, गौतमस्तु कुतू-15 #हलेन तदर्शनार्थं तदहं जगाम, मृगादेवी च वन्दित्वाऽऽगमन कारणं पप्रच्छ, गौतमस्तु स्वरपुत्रदर्शनार्थमित्युवाच,
ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ
गाथा:
4545-45134%ॐॐ
दीप अनुक्रम
[९६६-९७६]
E
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~446~