SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७५४-७५६] + गाथा: दीप अनुक्रम [९६६ -९७६] श्रीस्थाना झसूत्र वृत्तिः ॥ ५०७ ॥ [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५६] कोऽयं जन्मान्तरेऽभवत् १, भगवानुवाच-अयं हि विजयवर्द्धमानकाभिधाने खेटे मकापीत्यभिधानो उंचोपचारादिभिोकोपतापकारी राष्ट्रकूटो बभूव, ततः षोडशरोगातङ्काभिभूतो मृतो नरकं गतः, ततः पापकर्मविपाकेन मृगापुत्रो लोष्टाकारोऽव्यकेन्द्रियो दुर्गन्धिर्जातः, ततो मृत्वा नरकं गन्ता इत्यादि तद्वक्तव्यताप्रतिपादकं प्रथममध्ययनं मृगापुत्रमुक्तमिति १, 'गोत्तासे' ति गोरखासितवानिति गोत्रासः, अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराट्या गावस्त्रासिताः, यौवने चायं गोमांसान्यनेकधा भक्षितवान् ततो नारको जातः, ततो वाणिजग्रामनगरे विजयसार्थवाहभद्रा भार्ययोरुज्झितकाभिधानः पुत्रो जातः, स च कामध्वजगणिकार्ये राज्ञा तिलशो मांसच्छेदनेन तत्खादनेन च चतुष्पथे विडम्ब्य व्यापादितो नरकं जगामेति गोत्रासवतव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते २, 'अंडे'ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, स च निन्नको नरकं गतस्तत उद्वृत्तोऽभग्नसेननामा पल्लीपतिर्जातः, स च पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणाति कोपितेन विश्वास्याऽऽनीय प्रत्येकं नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानीप्रभृतिकं स्वजनवर्ग विनाश्य तिलशो मांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इंति, विपाकश्रुते चाभनसेन इतीदमध्ययनमुच्यते ३, 'सगडेत्ति यावरे' शकटमिति चापरमध्ययनं तत्र शाखांजन्यां नगर्यो सुभद्राख्यसार्थवाहभद्राभिधानतद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिका व्यतिकरे सगणिको मांसच्छेदा Educatonitamational Für Fortal & Private १० स्थाना. उद्देशः ३ छद्मस्थेत राज्ञेयत्रे याः कमे | विपाकद ~ 447~ शायाः सू० ७५५७५६ ॥ ५०७ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [ ०३] अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy