________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५३]
4
प्रत
सूत्रांक
[७५३]
धं यणं पाणुभवमाणा विहरति, तं०-सीतं १ उसिणं २ खुधं ३ पिवासं ४ कई ५ परमं ६ भयं ७ सोगं
जरं ९ वाहिं १० (सू० ७५३) 'दसे त्यादि, संज्ञानं संज्ञा आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराधी जीवोऽनयेति संज्ञा-वेद-11 नीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थ पुद्गलोपादानक्रियैव संज्ञायतेऽनयेत्याहारसंज्ञा, तथा भयवेदनीयोदयागयोहान्तस्य दृष्टिबदनविकाररोमाञ्चो दादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा वेदोदया-|| मैथुनाय ख्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियेव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभी-| दयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सञ्चित्तेतरद्रव्योपादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयातदावेशगर्भा प्ररूक्षमुखनयनदन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहकारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्केशादनृतसम्भाषणादिक्रियेच संज्ञायतेऽनयेति मायासंज्ञा,
तथा लोभोदयालालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमा-113 च्छिन्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तथा तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोक
संज्ञा १०, ततश्चौघसंज्ञा दर्शनोपयोगः लोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति-सामान्यप्रवृत्तिरोषसंज्ञा लोकदृष्टिलॊकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योका, एकेन्द्रियादीनां तु
दीप
अनुक्रम [९६५]
45%EX
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~442~