SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७५१] दीप अनुक्रम [९६२ -९६३] Education [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [७५१] स्थान [१०], [सम्यक्त्वावर करागद्वेष मोहाज्ञानानि यस्यापगतानि भवंति आज्ञाया रोचयन् स खलु आज्ञारुचिर्भवति ॥ १ ॥] 'सु तबीयरुईमेव 'ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तैनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः, अभिहितं च--"जो सुत्तमहिजंतो सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइति नायब्वो ॥ १ ॥” इति [यः सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वं अंगेनांगबाह्येन वा स सूत्ररुचिरिति ज्ञातव्यः ॥ २१॥ ] तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचि - रुपैति स बीजरुचिरिति भावः, गदितं च - "एगपएणे गाई पयाई जो पसरई उ सम्मत्ते । उदएब्व तिह्रबिंदू सो बीयरुइति नायब्वो ॥ १ ॥" [एकपदेनानेकानि पदानि योऽवगाहते लभते च सम्यक्त्वं उदके इव तैलविन्दुः स बीजरुचिरिति ज्ञातव्यः ॥ १॥ ] इति, 'एवे 'ति समुच्चये, तथा 'अभिगमवित्थाररुह 'त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो-ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तदुचेरिति भावः, गाथाsत्र - "सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिहं । एक्कारस अंगाई पइन्नयं दिट्टिवाओ य ॥ १ ॥” इति [सोऽभिगमरुचिर्भवति येनार्थतः श्रुतज्ञानं दृष्टं एकादशांगानि प्रकीर्णकानि दृष्टिवादश्च ॥ १ ॥] तथा विस्तारो - व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नयप्रमाणैर्ज्ञाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि “दव्वाण सव्वभावा सव्वपमाणेहिं Fat Par&Private On पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~440~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy