________________
आगम
(०३)
प्रत
सूत्रांक
[७५० ]
दीप
अनुक्रम [९५९
-९६१]
Educato
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५०]
स्थान [१०],
उद्देशक [-],
श्रमण इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, वभाण च अरे रे शूलपाणे अप्रार्थितप्रार्थक हीनपुव्यचतुर्दशीक श्रीह्रीधृतिकीर्त्तिवर्जित दुरन्तप्रान्तलक्षण! न जानासि सिद्धार्थ राजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीवितसममशेषसुरासुरनरनिकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति श्रुत्वा चासौ भीतो द्विगुणतरं क्षयमयति स्म तथा सिद्धार्थश्च तस्य धर्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकमपूपुजत्, लोकश्च चिन्तयाचकार - देवार्यकं विनाश्येदानीं देवः क्रीडतीति, स्वामी च | देशोनांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्त्तमात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्म|स्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां 'अंतिमराइयंसि त्ति अन्तिमा - अन्तिमभागरूपा अवयवे समुदायोपचारात् सा चासो रात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थः महान्तः - प्रशस्ताः स्वप्नां-निद्रावि कृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वमास्तान 'स्वपने' स्वापक्रियायां 'एगं चेति चकार उत्तरस्वमापेक्षया समुच्चयार्थः 'महाघोरं' अतिरौद्रं रूपम् - आकारं 'दीसं' ज्वलितं दृप्तं वा दवद्धारयतीति महाघोररूपदीष्ठधरस्तद्द्दष्टधरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः, तालो - वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधर्म्यात् पिशाचो - राक्षसस्तालपिशाचस्तं 'पराजितं ' निराकृतमात्मना १ 'एगं च'त्ति अन्यं च 'पुंसकोकिलगं' ति पुमांश्चासौ कोकिलश्च परपुष्टः पुंस्कोकिलकः स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः २ 'चित्तविचित्तपक्ख'चि चित्रेणेति-चित्रकर्म्मणा विचित्रौ-विविधवर्णविशेषयन्तौ पक्षौ यस्य स तथा ३ 'दामदुर्गति मालाद्वयं ४ 'गोवरगं' ति गोरूपाणि ५ 'पउमसर'त्ति प
Far Far & Pras Use On
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~436~