________________
आगम
(०३)
प्रत
सूत्रांक
[४०९]
दीप
अनुक्रम [४४३]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [५], उद्देशक [१], मूलं [ ४०९ ] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३ ममं च णं तमववेयणिजे कम्मे उदिने भवति तेण मे एस पुरिसे जाव अवहरति वा ४ ममं चणं सम्मं सहमाणं सममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अन्ने छडमत्था समणा णिग्या उदिने २ परीसदोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिरसंति ५, इथेतेहि पंचहि ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा (सू० ४०९)
• स्फुटं, किन्तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्म्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकपाय इत्यर्थः, उदीर्णान् उदितान् परीषहोपसर्गान् अभिहितस्वरूपान् सम्यक् कषायोदयनिरोधादिना सहेत - भयाभावेनाविचलनाद् भटं भटवत् क्षमेत क्षान्त्या तितिक्षेत अदीनतया अध्यासीत परीपहादावेवाधिक्येनासीत न चलेदिति, उदीर्ण-उदितं प्रबल वा कर्म्म- मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्मा खलुर्वाक्यालङ्कारे अयं प्रत्यक्षः पुरुषः उन्मत्तको मदिरादिना विप्लुतचित्तः स इव उन्मत्तकभूतो, भूतशब्दस्यो मानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो, भूतशब्दस्य प्रकृत्यर्थत्वात् उदीर्णकम्म यतोऽयमुन्मत्तकभूतः पुरुषः तेन कारणेन 'मे' इति मां एष:-अयमाक्रोशति शपति अपहसतिउपहासं करोति अपघर्षति वा अपघर्षणं करोति निश्छोदयति-सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति निर्भर्त्सयति दुर्वचनैः बध्नाति रज्यादिना रुणद्धि कारागारप्रवेशादिना छवेः- शरीरावयवस्य हस्तादेः छेदं करोति मरण| प्रारम्भः प्रमारो-मूर्च्छाविशेषो मारणस्थानं वा तं नयति-प्रापयतीति अपद्रावयति मारयति अथवा प्रमारं - मरणमेव 'उबद्दवेइति उपद्रवयति उपद्रवं करोतीति, पतद्महं पात्रं कम्बलं - प्रतीतं पादमोडनं रजोहरणं आच्छिनत्ति- बलादु
छद्मस्थ, उदीर्णकर्मा, पतद्ग्रह, पादप्रछन आदि शब्दानाम् व्याख्या
For Personal & Pre Only
~ 42~