SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७४३] + गाथा (०३) प्रत सूत्रांक [७४३] सगतस्तदा नासौ पर्वतकदेशे वर्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष इति ४, तथा लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्स्वनेनेति लक्षणं स्वं च तलक्षणं च स्वलक्षणं यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वं ५, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धो ज्ञानानावाधप्रकर्षात्, नात्र किल सकललोकमतीतः साध्यसाधनधानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता ६, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, तथा हिनोति-गमयतीति हेतुः साध्यसद्भावभावतदभावाभावलक्षणः, ततश्च स्वलक्षणादीनां इन्द्रः, तेषां दोषः स्वलक्षणकारणहेतुदोषः, इह काशब्दः छन्दोऽथ द्विर्बद्धो ध्येयः ७, अथवा सह लक्षणेन यी कारणहेतू तयो-| दोष इति विग्रहः तत्र लक्षणदोषोऽव्याप्तिरतियाप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तरस्वलक्षणमिति, इदं स्वलक्षणलक्षणं, इदं चेन्द्रियप्रत्यक्षमेबाश्रित्य स्यात् न योगिज्ञानं, योगिज्ञाने हि न || सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किश्चित्स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धि-४ हेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात्, अथवा दार्शन्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षण-दृष्टान्तस्तद्दोषः-साध्यविकलत्वादिः, तत्र साध्यविकलता यथा नित्यः शब्दो मूर्तत्वाद् घटवद्, इह घटे नित्यत्वं नास्तीति कारणदोपः साध्यं प्रति तद्व्यभिचारो यथा अपौरुषेयो वेदो X वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानकान्तिकत्व-| लक्षणः, तत्रासिद्धों यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्ध, विरुद्धो यथा नित्यः शब्द-12 AA%84%25 गाथा दीप अनुक्रम [९४४-९४९] E aton पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~418~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy