________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [१], मूलं [४०८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ANGALA
प्रत
CIR
सूत्रांक [४०८] दीप अनुक्रम [४४२]
इति, [दीर्घकालस्थितिका इस्वकालस्थितिकाः प्रकरोति प्रकृतीः॥ तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारि|कादिभेदतः पञ्चविधं तस्य प्रक्रमात् प्रशस्तस्य प्राग्वत प्रतिघातो बन्धनप्रतिघातो, बन्धनग्रहणस्योपलक्षणत्वात् तत्सह-1 चरप्रशस्तशरीरतदङ्गोपाजसंहननसंस्थानानामपि प्रतिघातो व्याख्येयः, तथा प्रशस्तगतिस्थितिबन्धनादिप्रतिघाताद् भोगाना-प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातो, भवति हि कारणाभावे कार्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव बलवीर्यपुरुषकारपराक्रमप्रतिघातो भवतीति प्रतीतं, तत्र वलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार:-अभिमानविशेषः पराक्रमः-स एव निष्पादितस्वविषयोऽथवा पुरुषकारः-पुरुषकर्त्तव्यं पराक्रमो-बलवीर्ययोव्यापारणमिति । देवगत्याविप्रतिघातच चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह-पंचविहे त्यादि, जाति-नाझणादिकामाजीवति-उपजीवति तज्जातीयमात्मानं सूचादिनोपदय ततो भक्कादिकं गृहातीति जात्याजीवका, एवं सर्वत्र, नवर कुलम्-उग्रादिकं गुरुकुलं या कर्म-कृष्याद्यनाचार्य वा शिल्प-तूर्णनादि साचार्यकं वा लिई-माधुलिई तदाजीवति, ज्ञानादिशून्यस्तेन जीविका कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते, यत उक्तम्-"जाई कुलगणकम्मे सिप्पे आजीवणा उ पंचविहा । सूयाए असूयाए अप्पाण कहेइ एकके ॥१॥"त्ति, [आत्मनो जातिकुलगणकर्माणि शिल्पं वा सूचयाऽसूचया वैकैकं कथयतीति पंचविधा आजीवकाः॥१॥] तत्र गणो-मल्लादिः, सूचया-व्याजेनासूचया-साक्षात् । अनन्तरं साधूनां रजोहरणादिकं लिङ्गमुक्त, अधुना खङ्गादिरूपं राज्ञां तदेवाह-पंच रायककुभा' इत्यादि व्यक्तं, नवरं राज्ञां-नृपतीनां ककुदानि-चिह्नानि राजककुदानि, 'उप्फेसित्ति शिरोवेष्टनं शेखरक इत्यर्थः,
SANGADC
JAMERucatana
~40~