________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७१३] + गाथा
4% E
प्रत
सूत्रांक
[७१३]
5%E5%E4%E5%A5%ES -
म्यक्त्वमिथ्यात्वमिश्रभेदात्, सम्यक्त्वे सति चारित्रमिति ततस्तपरिणाम उक्तः, सच सामायिकादिभेदात् पश्चति, ख्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दष्टेति चारित्रपरिणामानन्तरं घेदपरिणाम उक्तः, स च ख्यादिभेदात् त्रिविध इति । 'अजीवे'त्यादि, अजीवानां-पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धन-पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत्-"समनिद्धयाए बंधो न होइ समलुक्खयायवि न होई । वेमायनिखलुक्खत्तणेण बंधो उ खंधाणं ॥१॥"[समस्निग्धतया बंधो न भवति समरूक्षतयापि न भवति विमात्र स्निग्धरूक्षत्वेन स्कन्धानां वन्धः ॥ १॥] एतदुकं भवति-समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वाविना बन्धो न भवति, समगुणरूक्षस्थापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते "निद्धस्स निद्रेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ॥१॥” इति [स्निग्धस्य द्विकाधिकेन निग्धेन रूक्षस्य द्विकाधिकेन रूक्षेण रूक्षेण स्निग्धस्य बन्ध उपपद्यते विषमः समो वा जघन्यवयः ॥१॥] गतिपरिणामो द्विविधः-स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चार्य न सम्भाव्यते, गतिमद्रव्याणां प्रयतभेदोपलब्धेः, तथाहि-अभ्रकपहचूतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशगतिपरिणाम इति, अथवा दीर्घहस्वभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डलवृत्तव्यत्रचतुरस्रायतभेदात् पञ्चविधा,
RCRACCURACCX
दीप
अनुक्रम [९००
Et
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~382~