SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९१] प्रत सूत्रांक [६९१] श्रेणिको राजा प्रसिद्धस्तेन १, एवं सुपार्थो भगवतो वर्धमानस्य पितृव्यः २, उदायी कोणिकपुत्रः, यः कोणिकेऽप-1 क्रान्ते पाटलिपुत्रं नगरं न्यधीविशत् यश्च स्वभवनस्य विविक्तदेशे पर्वदिनेष्वाहूय संविनगीतार्थसद्गुरूस्तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमनुतिष्ठते एकदा च निशि देश| नि.टितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायाकर्तिकाकण्ठकर्त्तनेन विनाशित | इति २, पोहिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भायोत्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नः महाविदेहात्सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सि-IA द्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति ४, दृढायुरप्रतीतः ५, शङ्गशतको श्रावस्तीश्रावको, ययोरीहशी वक्तव्यता-किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय व-18 न्दितुमागताः, ततो निवर्तमानांस्तान् शङ्खः खल्वाख्याति स्म-यथा भो देवानांप्रिया! विपुलमशनाद्युपस्कारयत ततस्त-1 परिभुञ्जानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तत्प्रतिपेदिरे, पुनः शङ्खोऽचिन्तयत्-न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्तुं श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्तुं, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्या या वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयां चक्रुः एकत्र च समवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शङ्के पुष्कलीनामा श्रमणोपासका शतक इत्यपर-1 8 नाम शङ्खस्याकारणार्थ तद्गृहं जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, ततः पौषधशालायां स विवेश,8 दीप अनुक्रम [८७०] AchARACK Et पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~344~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy