________________
आगम (०३)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६३६-६४४] + गाथा:
SC-CA
प्रत
सूत्रांक
[६३५-६४४]
मत्ता अढ रसपईकुण्डा अढ रत्ताओ अट्ट रत्तवईओं तथा निषधवर्षधरपर्वतोत्तरनितम्बवत्तीनि पष्टियोजनप्रमा-1 णानि रकारक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ताः शीतामनुपतन्तीति, तथा धातकीमहाधातकीपद्ममहाप-12 झवृक्षाः जम्बूवृक्षसमानवक्तव्याः, यदाह-"जो भणिओ जंबूए विही उ सो चेव होइ एएसिं । देवकुरासुं सामलिरुक्खा| जह जंबूदीवम्मि ॥१॥" इति [य एव विधिर्जम्ब्वा भणितः स एव एतेषां (धातक्यादीनां) भवति देवकुरुषु शा-1 ल्मली वृक्षा यथा जंबूद्वीपे ॥१॥] क्षेत्राधिकारात् 'जंबुद्दीवे'त्यादि सूत्रचतुष्टयं, सुगम, नवरं 'भद्दसालवणे'त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालधनमस्ति, तत्राष्टी शीताशीतोदयोरुभयकूलवतीनि पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि प्रज्ञप्तानि, तद्यथा-'पउमें सिलोगो, कण्ठ्यः नवरमस्य सप्रसंगो विभागोऽयम्-"मेरुओ पन्नासं दिसि । विदिसिं गंतु भद्दसालवणं । चउरो सिद्धाययणा दिसासु विदिसासु पासाया ॥१॥छत्तीसुच्चा पणवीसवित्थडा दुगुणमायताययणा । चउवाविपरिक्खित्ता पासाया पंचसयउच्चा ॥२॥ ईसाणस्सुसरिमा पासाया दाहिणा य सकस्स । अट्ठ य हवंति कूडा सीतोसीतोदुभयकूले ॥३॥ दो दो चउद्दिसि मदरस्स हिमवंतकूडसमकप्पा। पउमुत्तरोऽत्थ पढमो पुब्बिम सीउत्तरे कूले ॥४॥ तत्तो य नेलवंते सुहत्थि तह अंजणागिरी कुमुए। तहय पलासवडंसे अट्ठमए रोयणगिरी या ॥५॥ | इति [ मेरुतः दिक्षु विदिक्षु च पंचाशयोजनी गत्वा भद्रशालवनं दिक्षु चत्वारि सिद्धायतनानि विदिक्षु प्रासादाः॥१॥ पत्रिंशदुच्चानि पञ्चविंशतिविस्तृतानि द्विगुणायतान्यायतनानि पंचशतोचा वापीचतुष्कपरिक्षिप्ताः प्रासादाः ॥ २॥ उत्तरत्या ईशानस्य दाक्षिणात्याश्च शक्रस्य प्रासादाः शीताशीतोदोभयकूलयोरष्टौ कूटानि भवन्ति ॥३॥ मेरोश्चतसृषु
दीप
अनुक्रम [७४६-७८१]
-96-0-
%
%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~310~