SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६११] दीप अनुक्रम [७२२] स्था० ७२ Educator [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [६११] स्थान [८], उद्देशक [-], " अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्व्वं सत्त्वे प्रतिष्ठितम् ॥ १ ॥” इत्यादि ७, व्यञ्जनं-मषादि, यथा- 'ललाटकेशः प्रभुत्वायेत्यादि ८ ॥ एतानि च शास्त्राणि वचनविभक्तियोगेनाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह - 'अडविहा वयणविभत्सीत्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽथ यैस्तानि वचनानि विभज्यते कर्तृत्व कर्मत्वादिलक्षणोऽर्थो यया सा विभक्तिः वचनात्मिका विभक्तिर्वचन विभक्तिः, 'सु औ जसि 'त्यादि, 'निद्देसे सिलोगो, निर्देशनं निर्देशः - कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनं तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १, तथा उपदिश्यत इत्युपदेशनं-उपदेशक्रियाया व्याप्यमुपलक्षणत्वादस्य क्रियाया यव्याप्यं तत् कर्मेत्यर्थस्तत्र द्वितीया, यथा भण इमं श्लोकं कुरु वा तं घटं ददाति तं याति ग्रामं २, तथा क्रियते येन तत्करणं-क्रियां प्रति साधकतमं करोतीति वा करणः कर्त्ता 'कृत्यल्युटो बहुल' (पा० ३-३-११३ ) मिति वचनादिति, तत्र करणे तृतीया कृता-विहिता, यथा नीतं सस्यं तेन शकटेन कृतं कुण्डं मयेति ३, तथा 'संपदावणेति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति बेति, सम्प्रदापनस्थोपलक्षणत्वादेव नमःस्वस्तिस्वाहास्वधाऽलंवपड्युक्ताश्च चतुर्थी भवति नमः | शाखायें - वैरादिकायै नमःप्रभृतियोगोऽपि कैश्चित्सम्प्रदानमभ्युपगम्यते इति चतुर्थी ४, 'पञ्चमी'ति श्लोकः, अपादीयते अपायतो-विश्लेषत आ-मर्यादया दीयते 'दो अवखण्डन' इति वचनात् खण्ड्यते भिद्यते आदीयते वा गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थस्तत्र पञ्चमी भवति, यथा- अपनय ततो गृहाद्धान्यमितो वा कुशलागुहाणेति ५, Far Portal & Private On पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~288~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy