________________
आगम
(०३)
प्रत
सूत्रांक
[ ३९७]
दीप
अनुक्रम [४३१]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [ ३९७] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education)
| इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसङ्क्षेपाभिधानस्य भेदाः 'उक्वित्तचरए' इत्यादिना अभिधीयन्ते तत्र उस्क्षिप्तं स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहविशेषाच्चरति तद्भवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिष्ठं-अनुद्वृतं अन्ते भवमान्तं भुक्तावशेषं बलादि प्रकृष्टमान्तं प्रान्तं तदेव पर्युषितं रूक्षं निःस्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चायौ भावाभिग्रहावितरे द्रन्याभिग्रहाः, यतोऽभाणि - "उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होंति । गायंतो व रुयंतो जं देइ निसण्णमाई वा ॥ १ ॥” [ उत्क्षिप्तादि चरकत्वादिका अभिग्रहा भावयुता भवंति । गायन् वा रुदन् निषण्णादिर्वा यद्ददाति ॥ १ ॥ ] तथा "लेबडमलेवर्ड वा अमुगं दव्वं च अज घेच्छामि । अमुगेण उ दब्वेणं अह दब्बाभिग्गहो नामं ॥ २ ॥" इति [ लेपकृदलेपकृद्वाऽमुकं द्रव्यं चाथ ग्रहीष्यामि । अमुकेन तु द्रव्येणैव द्रव्याभिग्रहो नाम ॥ १ ॥ ] एवमन्यत्रापि विशेष ऊह्य इति, अज्ञातः - अनुपदर्शितस्त्राजन्यर्द्धिमत्यत्र जितादिभावः सन् चरति भिक्षार्थमटतीत्यज्ञातचरकः, तथा 'अन्नइलायचरए'ति अन्नग्ठानको दोषान्नभुगिति भगवतीटीप्पन के उक्तः, एवंविधः सन् अथवा अक्षं विना ग्ला| यकः-समुखन्नवेदनादिकारण एवेत्यर्थः अभ्यस्मै वा ग्लायकाय भोजनार्थं चरतीति अन्नग्ठानकचरकोऽन्नग्लाय कचरकोऽन्यग्लायकचरको वा, कचित् पाठः 'अनवेल'त्ति तत्रान्यस्यां भोजन कालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चरतीत्यादि दृश्यं, अयं च कालाभिग्रह इति, तथा मौनं- मौनव्रतं तेन चरति मौनचरकः, तथा संसृष्टेन खरष्टितेनेत्यर्थी हस्तभाजनादिना दीयमानं 'कल्पिकं' कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भकादि यस्य स संसृष्टकल्पिकः,
For Personal & Pre Only
~ 28~
Say org