________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [८], उद्देशक [-], मूलं [५९७]
प्रत
सूत्रांक
[५९७]
स्तम्भितौ स्तब्धीकृतौ भुजी-पाहू यस्य स तथा । 'अंगदें'त्यादि, कर्णावेव पीठे-आसने कुण्डलाधारत्वाकर्णपीठे, मृष्टेपृष्टे गण्डतले प-कपोलतले च कर्णपीठे च यकाभ्यां ते मृष्टगण्डतलकर्णपीठे ते च ते कुण्डले चेति विशेषणोत्तरपदः । प्राकृतत्वात्कर्मधारयः, अङ्गदे च-केयूरे बाह्वाभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठे च धारयति यः सट्र तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च-कर्णाभरणविशेषभूते धारयति यः स तथा, तथा विचि
त्राणि-विविधानि हस्ताभरणानि-अङ्गलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणि चाभरणानि च यस्य वखालण्येव वाऽऽभरणानि-भूषणानि अवस्थाभरणानि वा-अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च-पुष्पमाला
मौलिश्च-शेखरो यस्य विचित्रमालानां वा मौलियस्य स तथा, कल्याणकानि-मानल्यानि प्रवराणि-मूल्यादिना वस्त्राणि परिहितानि-निवसितानि येन तान्येव वा परिहितो-निवसितो यः स तथा, कल्याणक प्रवरं च पाठान्तरेण प्रवरगन्धं च माल्य-मालायां साधु पुष्पमित्यर्थः अनुलेपनं च-श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा-दीपा बोन्दी-शरीरं यस्य स तथा, प्रलम्बा या वनमाला-आभरणविशेषस्तां धारयति यः स तथा, दिव्येन-स्वर्गसम्बन्धिना प्रधानेनेत्यर्थो वर्णादिना युक्त इति गम्यते, सातेन संहननेन-वज्रर्षभनाराचलक्षणेन संस्थानेन-समचतुरस्खलक्षणेन ऋव्या-115 विमानादिरूपया युक्त्या-अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया-प्रभावन माहात्म्येनेत्यर्थः, छायया-प्रतिषि-] म्वरूपया अचिषा-शरीरनिर्गततेजोज्यालया तेजसा-शरीरस्थकाम्त्या लेश्यया-अन्तःपरिणामरूपया शुक्लादिकया उद्योतयमानः-स्थूलवस्तूपदर्शनतः प्रभासयमानस्तु-सूक्ष्मवस्तूपदर्शनत इति, एकाधिकत्वेऽपि चैतेषां न दोषः, उत्कर्षप्रति
दीप
अनुक्रम [७०२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~274~