________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८७] +गाथा- १
प्रत सूत्रांक [५८७] गाथा
कस्तारकासंस्तृतत्वदर्शनात् , ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह च-"सक्वं
चिय संथारो ण कजमाणो कडोत्ति मे जम्हा । बेइ जमाली सच्चन कन्जमाण कयं तम्हा ॥१॥” इति, [मम संस्तारकः क्रियमाणः साक्षान्न कृत एवेति यस्मात् जमालिब्रवीति तस्मात् क्रियमाणं कृतं न सत्यं ॥१॥] यश्चैवं प्ररूपयन् स्थविरैरवमुक्त:-हे आचार्य ! क्रियमाणं कृतमिति नाध्यक्षविरुद्धं, यदि हि क्रियमाणं-क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे कथं तदिष्यत इति सदा प्रसङ्गः, कियाऽभावस्थाविशिष्टत्वात् , यदप्युक्तं 'अर्द्ध|संस्तूतसंस्तारकासंस्तृतत्वदर्शनात् तदध्ययुक्तं, यतो यद्यदा यत्राकाशदेशे वस्त्रमास्तीयते तत्तदा तत्रास्तीर्णमेव, एवं||
पाश्चात्यवस्खास्तरणसमये खल्वसावास्तीर्ण एवेति, आह च-"जं जत्थ नभोदेसे अत्धुब्बइ जस्थ जत्थ समयंमि । तं सातत्य तत्थमरधुयमरधुव्वंतंपि तं चेव ॥१॥" इति, [यत्र नभोदेशे यस्मिन् यस्मिन् समये यदास्तीर्यते सस्तिस्मिस्तदास्तीर्ण आस्तीर्यमानमपि तदेव ॥१॥] तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपि प्रत्युक्तो यो न तत् प्रतिपन्नवान् , सोऽयं बहुरतधर्माचार्यः १ तथा तिष्यगुप्ता वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यो, यो हि राजगृहे | विहरन्नात्मप्रवादाभिधानपूर्वस्य 'एगे भंते ! जीवप्पएसे जीवेत्ति वत्तव्वं सिया?, नो इणमट्टे समढे, एवं दो तिन्नि संखेजा |वा असंखेजा जाव एकेणावि पएसेण ऊणे नो जीवेत्ति वत्तव्वं सिआ, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुलप्पएसे जीवेति वत्तवं सिया' [एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यः स्यात् ?, नेपोऽर्थः समर्थः, एवं द्वौ त्रयः सङ्ख्येया असमवेया वा यावदेकेनापि प्रदेशेनोनः जीव इति नो वक्तव्यः स्यात्, यस्मात् कृत्स्ना प्रतिपूर्णः लोकाकाशप्रदेशतुल्यप्रदेशः
CRky
||१||
दीप
अनुक्रम
[६८८६८९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~254~