________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५८५]
प्रत सूत्रांक [५८५]
CREASONAGACCORc
लाप' इति वचनात् स एव कुत्सितोऽनुलापः, क्वचित्पुनरनुलाप इति पाठस्तत्रानुलापा-पीनःपुन्यभाषणं "अनुलापो| मुहुर्भाषा" इति वचनात् , सल्लापः-परस्परभाषणं "संलापो भाषणं मिथः" इति वचनात्, प्रलापो-निरर्थकं वचनं | "प्रलापोऽनर्थकं वचः" इति वचनात् स एव विविधो विप्रलाप इति ॥ एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह-'सत्तविहे'त्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः प्रज्ञप्तस्तद्यथा-ज्ञान-आभिनिवोधिकादि पञ्चधा तदेव विनयो ज्ञानविनयो ज्ञानस्य वा विनयो-भत्त्यादिकरणं ज्ञान| विनयः, उक्तं च "भत्ती १ तह बहुमायो २ तद्दिद्वत्थाण सम भावणया ३। विहिगहण ४ भासोऽविय ५ एसो विणओ जिणाभिहिओ ॥१॥"[भक्तिस्तथा बहुमानं तदृष्टार्थानां सम्यग्भावना विधिना ग्रहणं अभ्यासोऽपि च एष | विनयो जिनाख्यातः ॥१॥] दर्शन-सम्यक्त्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा-तदव्यतिरेकाद्दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो बिनयो दर्शनविनयः, उर्फ च-"सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसण-1 गुणाहिएK कजइ सुस्सूसणाविणओ ॥१॥सकार १ भुटाणे २ सम्माणा ३ सणअभिग्गहो तह य ४ । आसणमणुप्पयाणं ५ कीकम्म ५ अंजलिगहो य ७॥२॥ इतस्सऽणुगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुब्वयणं १० एसो सुस्सूसणाविणओ ॥३॥" इति, [शुश्रूषणाऽनाशातना च विनयस्तु दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः॥१॥ सत्कारोऽभ्युत्थानं सन्मान आसननिमन्त्रणा तथा च आसनसंक्रामणं कृतिकर्म अंजलिहश्च ॥२॥ आगच्छतोऽभिवजनं स्थितस्य तथा पर्युपासना भणिता गच्छतोऽनुव्रजन एष शुश्रूषणाविनयः ॥३॥
दीप
अनुक्रम [६८६]
44444
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~248~