SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१६२] +गाथा प्रत सूत्रांक [५६२] C46-05- 20 गाथा सत्तविध मिजए आउं ॥ १॥' (सू०५६१) सत्तविधा सम्बजीवा पं०, तं०-पुढविकाइया आउ० तेउ० बाउ० वणस्सति० तसकातिता अकातिता, अहवा सत्तविहा सम्बजीवा पं०, ०-कण्हलेसा जाव सुफलेसा अलेसा (सू०५६२) 'सत्ते'त्यादि कण्ठ्यं, संसारिणां च संसरणं आयुमेंदे सति भवतीति तदर्शयन्नाह-'सत्ते'त्यादि, तत्र 'आज्यभे-18 देति आयुषो-जीवितव्यस्य भेदः उपक्रमः आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति, 'अज्झव-| साण'गाहा, अध्यवसानं-रागस्नेहभयात्मकोऽध्यवसायो निमित्तं-दण्डकशाशस्त्रादीनि समाहारद्वन्द्वस्तत्र सति आयुभिंद्यत इति सम्बन्धः, तथा आहारे-भोजनेऽधिके सति, तथा वेदना-नयनादिपीडा पराघातो गर्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव तत्र सति, तथा स्पर्श-तथाविधभुजङ्गादिसम्बन्धिनि सति, तथा 'आणापाणु'त्ति उच्छासनिःश्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अथवा अध्यवसानमायुरुपक्रमकारणमिति शेषः, एवं निमित्तमित्यादि, यावदाणापाणुत्ति व्याख्येयं, प्रथमैकवचनान्तत्वादध्यवसानादिपदानां, एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविध यथा भवति तथा भिद्यते आयुरिति, अयं चायुर्भेदः सोपक्रमायुषामेव नेतरेपामिति, आह-यद्येवं भिद्यते आयुस्ततः कृतनाशोऽकृत्याभ्यागमश्च स्यात्, कथं?, संवत्सरशतमुपनिबद्धमायुस्त स्य अपान्तराल एव व्यपगमास्कृतनाशो येन च कर्मणा तद्भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह च-"कम्मोवकामिज्जइ अपत्तकालंपि जइ तओ पत्ता । अकयागमकयनासा मोक्खाणासासओ दोसा ॥१॥" [अप्राप्तकाले यदि कर्म उपक्रम्यते ततोऽकृतागमकृतनाशान्मोक्षेऽनाश्वासः दोषाः॥१॥] अनोच्यते-यथा दीप अनुक्रम [६५९-६६२] EU पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~232~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy