________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५९] +गाथा
प्रत सूत्रांक [१५९]
चित्रा-विचित्रा रसा-मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः, 'मणियंगत्ति मणीनां-आभरणभूतानामङ्गभूता:-कारणभूताः मणयो वा अङ्गानि-अवयवा येषां ते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 'अणियण'त्ति अनग्नकारकत्वादनम्ना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, 'कप्परुक्ख'त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना करूपस्तनधाना वृक्षाः कल्पवृक्षा इति । 'दंडनीइ'त्ति दण्डनं दण्ड:-अपराधिनामनुशासनं, तत्र तस्य वा स एव वा नीतिः-नयो दण्डनीतिः, 'हकारेत्ति हु इत्यधिक्षेपार्थस्तस्य करणं हक्कारः, अयमर्थः-प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हकारमात्र, तेनैवासौ हतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकार, तृतीयचतुर्थकुलकरकाले महत्यपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, पञ्चमषष्ठसप्तमकुलकरकाले महा|पराधे धिक्कारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति, आह च-पढमवीयाण पढमा तइयचउत्थाणा अभिनवा बीया । पंचमछस्स य सत्तमस्स तइया अभिणवा उ ॥१॥” इति, [प्रथमद्वितीययोः प्रथमा तृतीयचतु-31
योरभिनवा द्वितीया । पञ्चमषष्ठसप्तमानां तृतीयाऽभिनवा तु ॥१॥] तथा परिभाषणं परिभाषा-अपराधिनं प्रति ४ कोपाविष्कारेण मा यासीरित्यभिधानं, तथा 'मण्डलबन्धों' मण्डलं-इशितं क्षेत्रं तत्र बन्धो-नास्मात् प्रदेशाद् गन्त-४
व्यमित्येवं वचनलक्षणं, पुरुषमण्डलपरिवारणलक्षणो वा, 'चारक' गुप्तिगृहं 'छविच्छेदों' हस्तपादनासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृपभकाले अन्ये तु भरतकाले इत्यन्ये, आह् च
गाथा दीप अनुक्रम [६४६-६५८]
Ecoto
N
ayam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~230~