________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५३] +गाथा १-३२
प्रत
सूत्रांक
।
ASANCHARAC
[५५३]
गाथा ||१-३२||
दीप अनुक्रम [६०४-६४३]
सरा' गाहा प्रश्ननिर्वचनार्थी स्पष्टा, नवरं रुदितं योनिः-जातिः समानरूपतया यस्य तद् रुदितयोनिक, पादसमया उच्छ्रासा-यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छामा गीते भवन्तीत्यर्थः, आकारानाह-'आई' गाहा,
आदौ-प्राथम्ये मृदु-कोमलमादिमृदु गीतमिति गम्यते, आरभमाणाः, इह समुदितत्रयापेक्षं बहुवचनमन्यथा एक एवं | आकारो द्वयमन्यद् वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे-मध्यभागे, तथा अवसाने च क्षपयन्तो-गीतध्वनि मन्द्रीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदिमध्यावसानेषु गीतध्वनिः मृदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः, किं चान्यत्-'छ होसे' दारगाहा, षट् दोषा वर्जनीयाः, तानाह-'भीर्य'गाहा, भीत-त्रस्तमानसं १ द्रुतं-त्वरितं २ 'रहस'ति इस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण 'उप्पिच्छं' श्वासयुक्तं त्वरितं चेति उत्ताल-उत्पाबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्द विशेष इति ४, 'काकस्वर' श्लक्ष्णाश्रव्यस्वरं, | अनुनासं च-सानुनासिकं नासिकाकृतस्वरमित्यर्थः, किमित्याह-गायन् गानप्रवृत्तस्त्वं हे गायन! मा गासी, किमिति, | यत एते गेयस्य षट् दोषा इति । अष्टौ गुणानाह-'पुन्न' गाहा, पूर्ण स्वरकलाभिः १ रक्तं गेयरागेणानुरक्तस्य २ अलङ्कतमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३ व्यक्तमक्षरस्वरस्फुटकरणत्वात् ४ 'अविघुडं' विक्रोशनमिव यन्न विस्वरं ५ मधुरं-मधुरस्वर कोकिलारुतवत् ६ सम-तालवंशस्वरादिसमनुगतं ७ सुकुमार-ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति ८, एभिरधाभिर्गुणयुक्तं गेयं भवति, अन्यथा विडम्बना । किश्चान्यत्-उरगाहा, उरकण्ठशिरासु प्रशस्त-विशुद्धं, अयमों-यधुरसि स्वरो विशालस्तत उरोविशुद्धं, कण्ठे यदि
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~224~