________________
आगम
(०३)
प्रत
सूत्रांक [ ५४५ ] दीप
अनुक्रम [५९६]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [५४५]
स्थान [७],
उद्देशक [-],
द्वितीये द्वे द्वे एव ॥१॥ एवमेकैकां भिक्षा क्षिपेद्यावत् एकैकसप्तकेऽन्तिमे दिने सप्त सप्त गृह्णाति ||२|| अथवैकैकां दत्तिं ( हापयेत्) एकैकसप्तके यावत् सप्त एपोऽप्यादेशोऽस्ति सिंहगतिसदृशः ॥ ३ ॥ ] 'अहासुत्तं'ति यथासूत्रं - सूत्रानतिक्रमेण यावत्करणात् 'अहाअत्थं' यथार्थ - नियुक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, 'अहातचं' यथातत्त्वं सप्तसप्तमिकेत्य| भिधानार्थानतिक्रमेण अन्वर्थसत्यापनेनेत्यर्थः 'अहामग्गं' मार्गः - क्षायोपशमिको भावस्तदनतिक्रमेण, औदयिकभावागमनेनेत्यर्थः, 'अहाकष्प' यथाकल्पं कल्पनीयानतिक्रमेण प्रतिमासमाचारानतिक्रमेण वा 'सम्मं कारणं' कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, 'फासिया' स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, 'पालिय'ति पुनः पुनरुपयोगप्रति जागरणेन रक्षिता, 'सोहिय'ति शोभिता तत्समाप्तौ गुर्वादिप्रदानशेषभोजनासेवनेन शोधिता वा अतिचारवर्जनेन तदालोचनेन वा, 'तीरियत्ति तीरं पारं नीता, पूर्णेऽपि कालावधी किञ्चित्कालायस्थानेन, 'विट्टिय'त्ति कीर्त्तिता पारणकदिने अयमयं चाभिग्रहविशेषः कृत आसीद् अस्यां प्रतिमायां स चाराधित एवाधुना मुत्कलोऽहमिति गुरुसमक्षं कीर्त्तनादिति, 'आराहिय'त्ति एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीता भवतीति प्रत्याख्यानापेक्षया अन्यत्र व्याख्यानमेषामेवं- "उचिए काले वि हिणा पत्तं जं फासियं तयं भणियं । तह पालियं तु असई सम्मं उबओगपडियरियं ॥ १ ॥ गुरुदाण सेस भोयण सेवणयाए सोहियं जाण । पुन्नेवि घेवकालावस्थाणा तीरियं होइ ॥ २ ॥ भोयणकाले अमुगं पञ्चवखायंति भुंज किट्टिययं । आराहियं पयारेहिं संगमेएहिं निदृवियं ॥ ३ ॥” इति । [ विधिना यदुचिते काले प्राप्तं तत्स्पृष्टं भणितं असकृत्सम्यगुपयोगप्रति चरितं पालितं तथैव ॥ १ ॥ गुरुदानशेषभोजनसेवनतया शोधितं जानीहि पूर्णेऽपि स्तोककालावस्थानात्तीर्ण भ
Far Far & Prau Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~ 208~
anuray.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः