________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४५]
प्रत
69-96
सूत्रांक [५४५]
दीप अनुक्रम [५९६]
COCKR
वादिषूपहृतमेव भोजनजातं यत् ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीत योजनजातं भोक्तुं वा स्वहस्तादिना तद् गृहृत इति षष्ठी, उज्झितधा नाम यत्परित्यागाई भोजनजातमन्ये च द्विपदादयो नावकाङ्गन्ति तदर्द्धत्यकं वा गृहृत इति हृदयं सप्तमीति । पानकैषणा एता एव, नवरं चतुर्थी नानात्वं, तत्र द्यायामसौवीरकादि निलेपं विज्ञेयमिति । 'उग्गहपडिम'त्ति अवगृह्यत इत्यवग्रहो-वसतिस्तत्प्रतिमाः-अभिग्रहा अवनहप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा गृह्णतः प्रथमा, तथा
यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा--अहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते है। सति वत्स्यामीति तस्य द्वितीया, प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां साम्भोगिकानामसम्भोगिकानां चोद्युक्तविहारिणां, यतस्तेऽन्योऽन्याध याचन्त इति, तृतीया त्वियं-अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा स्वहालन्दिकानां, यतस्ते सूत्रावशेषमाचार्यादभिकासन्तः आचार्यार्थं तां याचन्त इति, चतुर्थी पुनरहमन्येषां |कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकम्म कुर्वतां, पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति, इयं तु जिनकल्पिकस्येति, षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्ण उपविष्टो वा
रजनी गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति, सप्तमी एव पूर्वोक्का, नवरं यथाऽऽस्तृतमेव शिलादिकं ग्रहीष्यामि मानेतरदिति । अयं च सूत्रत्रयार्थः क्वचित्सूत्रपुस्तक एव दृश्यत इति । 'सत्ससत्तिक्कय'त्ति अनुद्देशकतयैकसरत्वेन ए
SamEautatunintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 206~