________________
आगम
(०३)
प्रत
सूत्रांक
[५०० ]
+
गाथा
दीप
अनुक्रम
[५४४
-५४८]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [५०० ]
स्थान [६],
नवरमाहारं-अशनादि कमाहारयन्- अभ्यवहरन्नातिक्रामत्याज्ञा, पुष्टकारणत्वाद्, अन्यथा त्वतिक्रामत्येव, राणादिभाषात्, तद्यथा- 'बेषण' माहा, वेदना च क्षुद्वेदना वैयावृत्त्वं च- आचार्यादिकृत्यकरणं वेदनावैयावृत्त्यं तत्र विषये भुञ्जीत, वेदनोपशमनार्थ वैयावृत्यकरणार्थ चेति भावः, ईर्ष्या - गमनं तस्या विशुद्धिर्युगमात्र निहितदृष्टित्वमीर्याविशुद्धिस्तस्यै इदमीर्याविशुद्ध्यर्थ, इह च विशुद्धिशन्दलोपादीर्यार्थमित्युक्तं, बुभुक्षितो हीर्याशुद्धावशकः स्यादिति तदर्थमिति, चः समुचये, संयमः- मेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणः तदर्थ, 'तथे 'ति कारणान्तरसमुच्चये, प्राणाः-उच्छ्रासादयो वलं वा प्राणस्तेषां तस्य | वा वृत्तिः पालनं तदर्थं प्राणसंधारणार्थमित्यर्थः, पठं पुनः कारणं धर्मचिन्ताये गुणनानुप्रेक्षार्थमित्यर्थः इत्येतानि षट्टा| रणानीति, अत्र भाष्यगाथे- "नत्थि तुहाए सरिसा विवणा भुंजिजा तयसमणद्वा । छाजो ( बुभुक्षितः वेयावचं न तरह कार्ड अओ भुंजे ॥ १ ॥ इरियं न व सोहेर जहोव च संजमं काउं । थामो वा परिहायइ गुणणुप्पेहासु य असत्तो ॥ २॥ त्ति, [ नास्ति क्षुधा सदृशी वेदना भुञ्जीत तत्प्रशमनार्थम् । बुभुक्षितः वैयावृत्त्यं न शक्नोति कर्त्तुं अतो भुञ्जीत ॥१॥ ईर्ष्या न च शोधयति यथोपदिष्टं च संयमं कर्त्तुं (न शक्तः) । बलं परिहीयते गुणनानुप्रेक्षयोरशक्तश्च ||२|| 'वोदिमाणे 'ति परित्यजन् आतङ्के-ज्वरादावुपसर्गे - राजस्वजनादिजनिते प्रतिकूलानुकूलस्वभावे तितिक्षणे- अधिसहने कस्याः श्रह्मचर्यगुतेः-मैथुनत्रत संरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्ये सुरक्षितं स्यादिति, प्राणिदया च-संपातिमत्रसादिसंरक्षणं तपः- चतुर्थादि पण्मासान्तं प्राणिदयातपस्तच तद्धेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोर्दयादिनिमित्तमित्यर्थः तथा शरीरव्यवच्छेदार्थ-देहत्यागाय आहारं व्यवच्छिन्दन्नातिक्रामत्याज्ञामिति प्रक्रमः इह गाथे
Far Far & Private
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~152~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः