________________
आगम
(०३)
प्रत सूत्रांक
[४६४]
दीप
अनुक्रम [५०७ ]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [ ४६४ ] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Educato
हाणं च तोऽवही सो य। मज्जाया जं तीए दब्वाइपरोप्परं मुणइ ॥ १ ॥” इति [ तेनावधीयते तस्मिन् वाडवधानं ततोऽवधिः स च मर्यादा तस्मिन् द्रव्यादिपरः क्षेत्रादि परं जानाति ॥ १॥] तथा परि:- सर्वतोभावे अवनं अवः अयनं वा अयः आयो वा गमनं वेदनमिति पर्यायाः परि अवः अयः आयो वा पर्यवः पर्ययः पर्यायो वा मनसि मनसो वा पर्यवः पर्ययः पर्यायो या मनःपर्यवो मन:पर्ययो मनःपर्यायो वा, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं मन:पर्ययज्ञानं मनःपर्यायज्ञानं वा, अथवा मनसः पर्यायाः पर्यया पर्यवा वा भेदा धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यर्थस्तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानं मन:पर्ययज्ञानं मनः पर्यवज्ञानमिति, आह च - " पज्जवणं पज्जयणं पज्जाओ वा मणमि मणसो वा । तस्स व प्रजायादिन्नाणं मणपज्जवन्नार्ण ॥ १ ॥” इति [ पर्यवनं पर्ययनं पर्यायो वा मनसि मनसो वा तस्य वा पर्यायादिज्ञानं मनःपर्यायज्ञानं ॥ १ ॥ ] केवलं - असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानं, उक्तं च - "केवलमेगं सुद्धं सगलमसाहारणं अनंतं च । पायं च नाणसदो नाणसमाणाहिगरणोऽयं ॥ १ ॥” इति [ केवलं एकं शुद्धं सकलं असाधारणं अनंतं च । प्रायेणायं ज्ञानशब्दः ज्ञानसमानाधिकरणः ॥ १ ॥ ] प्राय इति मनःप र्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्तद्भावे च शेषज्ञानसद्भावादादावेव मतिज्ञानश्रुतज्ञानयोरुपन्यास इति, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, “जत्थ मतिनाणं तत्थ
ज्ञानस्य पंचविधत्वं एवं तस्य व्याख्या:, ज्ञानावरणीय कर्मादि पंचक:
For Personal & PratOnf
~128~
5