SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [३], मूलं [४६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६२] दीप अनुक्रम [५०५] BHASHA समयभाषया वस्खमिति, स्थापनैव स्थापनया वा अनन्तक स्थापनानन्तक-अनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञभव्यशरीरादिव्यतिरिक्तं द्रव्याणामण्यादीनां गणनीयानामनन्तकं द्रव्यानन्तकं, गणना-सायानं तलक्षणमनन्तकमविवक्षिताण्वादिसझयेयविषयः सङ्ग्याविशेषो गणनानन्तकं, प्रदेशानां सङ्ख्येयानामनन्तकं प्रदेशानन्तकमिति, एकतः-एकेनांशेनायामलक्षणेनानन्तकमेकतोऽनन्तकम्-एकश्रेणीकं क्षेत्र, द्विधा-आयामविस्ताराभ्यामनन्तक द्विधानन्तकं-प्रतरक्षेत्रं, क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतरदिग्लक्षणो देशस्तस्य विस्तारो-विष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकं, सर्वाकाशस्य तु चतुर्थ, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम्-अनाद्यपर्यवसितं यजीवादिद्रव्यमनन्तसमय|स्थितिकत्वादिति । एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह पंचविहे णाणे पं० त०-आभिणियोहियणाणे सुयनाणे ओहिणाणे मणपज्जवणाणे केवलणाणे (सू०४६३) पंचविहे णाणावरणिज्जे कम्मे पं० सं०-आमिणिबोहियणाणावरणिजे जाच केवलनाणावरणिज्जे (सू०४६४) 'पंचविहे'त्यादि, पञ्चेति-पञ्चसङ्ख्या विधाः-भेदा यस्य तसञ्चविधं, ज्ञातिर्ज्ञानमिति भावसाधनः संविदित्यर्थः, ज्ञायते वाऽनेनास्माद्वेति ज्ञान-तदावरणस्य क्षयः क्षयोपशमो वा, ज्ञायते वाऽस्मिन्निति ज्ञान-आत्मा तदावरणक्षयक्षयोपशमपरिणामयुक्तो, जानातीति वा ज्ञानं तदेव स्वविषयग्रहणरूपत्वादिति, 'प्रज्ञप्त' प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः। | उक्तं च-"अत्थं भास अरिहा सुतं गंथंति गणहरा निउणं । सासणस्स हियहाए, तो सुत्तं पवत्तइ ॥१॥" इति [अहेन् भाषतेऽर्थ सूत्र प्रश्नन्ति गणधराः निपुणं । शासनस्य हितार्थाय ततः सूत्र प्रवर्तते ॥१॥] अथवा प्राज्ञात्-तीर्थकरात् ज्ञानस्य पंचविधत्वं एवं तस्य व्याख्या: ~1264
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy