________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४४९] दीप अनुक्रम [४८७]
414145-4551-
लिंगे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः॥१॥ एतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् ॥२॥" इति, तदिह नाभिमत, गन्धाद्युपघातमात्रस्य : शौचत्वेन विवक्षितत्वात् , तस्यैव च युक्तियुक्तस्वात् इति १, तथा अभिः शौचमपशौचं प्रक्षालनमित्यर्थः २, तेजसा-18 ऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशौचं ३, एवं मंत्रशौचं शुचिविद्यया ४ ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं ब्रह्मशौचं ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतं, तच्चेदम्-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः।
सर्वभूतदया शौचं, जलशौचञ्च पञ्चमम् ॥१॥” इति, लौकिकैः पुनरिद सप्तधोक्तम्-यदाह-"सप्त स्नानानि प्रोक्तानि, ४ स्वयमेव स्वयंभुवा । द्रव्यभावविशुद्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥१॥ आग्नेयं वारुणं ब्राहय, वायव्यं दिव्यमेव च । पार्थिवं मानसं चैव, स्नानं सप्तविध स्मृतम् ॥ २॥ आग्नेयं भस्मना स्नानमवगायं तु वारुणं । आपोहिष्ठामयं ब्रायं,
वायव्यं तु गवां रजः॥३॥ सूर्यदृष्टं तु यदृष्ट, तद्दिव्यमृषयो विदुः। पार्थिवं तु मृदा स्नानं, मनाशुद्धिस्तु मानसम्| ४॥४॥” इति । अनन्तरं ब्रह्मशौचमुक्तं, तच्च जीवशुद्धिरूपं, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छास्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह
पंच ठाणाई छतमत्थे सध्यभावेणं ण जाणति ण पासति, तं०-धम्मस्थिकातं अधम्मस्थिकातं आगासस्थिकार्य जीवं असरीरपडियलं परमाणुपोग्गलं, एयाणि चेव उत्पन्न नाणदसणधरे अरहा जिणे केवली सव्वभावणं जाणति पासति धम्मस्थिकातं जाव परमाणुपोग्गलं (सू०४५०) अधोलोगे णं पंच अणुत्तरा महतिमहालता महानिरया ५००-काले
25
aam Educataniml
~114~