SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [३], मूलं [४४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४५] दीप अनुक्रम [४८३] ख्यात निर्ग्रन्धः क्षीणकषाय उपशान्तमोहो वा, क्षालितसकलपातिकर्ममलपटलत्वात् स्नात इव स्नातः स एव स्नातका, सयोगोऽयोगो वा केवलीति । अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः पञ्चविधो, लब्धिपुलाकस्यैकविधत्वात् , तत्र स्खलितमिलितादिभिरतिचारैज्ञानमाश्रित्यात्मानं असारं कुर्वन् ज्ञानपुलाका, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाका, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाका, किश्चित्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पत्रम इति । बकुशो द्विविधोऽपि पञ्चविधा, तत्र शरीरोपकरणभूषयोः सञ्चिन्त्यकारी आभोगबकुशः, सहसाकारी अनाभोगवकुशः, प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं, किश्चित्तमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मयकुशी नाम पञ्चम इति, कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञानदर्शनचारित्रलिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलो, लिङ्गस्थाने क्वचित्तपो दृश्यते, तथा अयं तपश्चरतीत्येवमनुमोद्यमानो हर्ष गच्छन् यथासूक्ष्मकुशीलः प्रतिषेवणयैवेति, कषायकुशीलोऽप्येवं नवरं क्रोधादिना विद्यादिज्ञानं प्रयुञ्जानो ज्ञानकुशीला, दर्शनग्रन्थं प्रयुञ्जानो दर्शनतः शापं ददत चारित्रतः कषायैलिशान्तरं कुर्वन् लिङ्गतः मनसा कपायान् कुर्वन् यथासूक्ष्मः । चूर्णिकाकारव्याख्या खेवम्-'सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीला, कषायकुशीलास्तु | पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना क्रियत इति । अन्तर्मुहूर्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्तमान एकः ४ शेषेषु द्वितीयः अन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति विवक्षया भेद एषामिति । छवि:-शरीरं तदभावात्का-15 k AMEducatuRSH निर्ग्रन्थ शब्दस्य व्याख्या एवं भेद-प्रभेदा: ~106~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy