SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |७७|| दीप अनुक्रम [८०२] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [७७], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताने २ श्रुतस्क न्धे शीलाकीमाकृतिः ॥४१६ ॥ समुत्पद्यन्ते तेषां च त्रसानां सर्वेषां स्थावर कायसमुत्पन्नानां स्थानमेतद् घात्यं वर्तते, तेन श्रावकेण स्थावरकायवधनिवृत्तेरकर - शाद्, अतः सर्वस्य त्रसकायस्य स्थावरका यत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवध निवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथाकेनचिद्रतमेवंभूतं गृहीतं यथा-मया नगरनिवासी न इन्तव्यः, तच्चोइसितं नगरम्, अतो निर्विषयं तत्तस्य प्रत्याख्यानम्, एवमत्रापि सर्वेषां त्रसानामभावान्निर्विषयत्वमिति । एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दूषयितुमाह सद्वाचं सवाद वा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा-नो खल्वायुष्मन्नुदक! अस्माकमित्येतन्मगधदेशे आगोपालाङ्गनादिप्रसिद्धं संस्कृतमेवोश्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमस्साकं संबन्धिना वक्तव्येन नैतदशोभनं किं तर्हि ?, युष्माकमेवानुप्रवादेनैतदशोभनं इदमुक्तं भवति - अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि नैतद्भूतं न च भवति नापि कदाचिद्भविष्यति यदुत -- सर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तेरित्यभिप्रायः, तथा त्रसा अपि सर्वेऽपि न स्थावरस्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते इदमुक्तं भवतियद्यपि विवक्षितकालवर्तिनसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पच्या त्रसजात्यनुच्छेदान्त्र कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमसन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मद्भ्युपगमेनैव परिहियते—तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः - स चायं भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते यस्मिन्पर्याये - अवस्थाविशेषे श्रमणोपासकस्य कृतन्त्र सप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भत्रदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैव सर्वप्राणिभित्रसत्वेच भूतैः- उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तः - परित्यक्तः, इदमुक्तं भवति यदा Education international For Parts Only ~363~ ७ नाल न्दीयाध्य श्रावकप्रत्याख्यान स्य सविष यता ।।४१६ ॥
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy