________________
आगम
(०२)
प्रत
सूत्रांक
||२४||
दीप
अनुक्रम [६०३]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १४], उद्देशक [ - ], मूलं [२४], निर्युक्तिः [१३१]
| निर्ममत्वादल्पसच्चैर्दुरनुष्ठेयखाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुषं- संयमं 'विजानीयात्' तदनुष्ठानतः सम्यगवगच्छेत्, तथा स्वतः कञ्चिदर्थविशेषं परिज्ञाय पूजासत्कारादिकं वाऽवाप्य 'न तुच्छो भवेत्' नोन्मादं गच्छेत्, तथा 'न विकल्पयेत्' नात्मानं श्लाघयेत् परं वा सम्यगनवबुध्यमानः 'नो विकत्थयेत्' नात्यन्तं चमढयेत्, तथा 'अनाकुलो' व्याख्यानावसरे धर्मकथावसरे वाग्नाविलो लाभादिनिरपेक्षो भवेत्, तथा सर्वदा 'अकषायः' कषायरहितो भवेद् 'भिक्षुः साधुरिति ॥ २१ ॥ साम्प्रतं व्याख्यानविधिमधिकृत्याह - 'भिक्षुः' साधुर्व्याख्यानं कुर्वन्नर्वाग्दर्शितादर्द्धनिर्णयं प्रति अशङ्कितभावोऽपि 'शङ्केत' औद्धत्यं परिहरनहमेवार्थस्य वेत्ता नापरः कविदित्येवं भवं न कुर्वीत किंतु विषममर्थ प्ररूपयन् साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थं न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवादं पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विभज्यवाद:- स्याद्वादस्तं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद्, अथवा सम्यगर्थान् विभज्यपृथककृत्वा तद्वादं वदेत् तद्यथा--- नित्यवादं द्रव्यार्थतया पर्यायार्थतया खनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तम् - "सदेव सर्वं को नेच्छेत्स्वरूपादिचतुष्टयात् ? । असदेव विपर्यासान्न | चेन व्यवतिष्ठते || १||" इत्यादिकं विभज्यवादं वदेदिति । विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह - भाषयोः - आद्यचरमयोः सत्यासत्यामृषयोकिं भाषाद्विकं तद्भापायं कचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा 'ब्यागृणीयात्' मायेत, किंभूतः सन् १- सम्यक् - सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः- सत्साधव उद्युक्तविहारिणो न पुनरुदायिन्नृपमारकात्कृत्रिमास्तैः सम्यगुत्थितैः सह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनग्रो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणी
Education intemational
For Fasten
www.janbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~30~