________________
आगम
(०२)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम [६५३]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [२१], निर्युक्तिः [१६८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित
तृभगिनीभार्यापुत्रदुहितृस्नुषादिभिः सार्धं ' (सं) वसन्' तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो 'हन्यात् व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् ॥ पुनरप्यन्यथा तमेवाह - 'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघातादिके विभ्रमे आन्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं 'तेन' भ्रान्तमनसा विभ्रमाकुलेनाचौर एवं हतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डः, तदेवं खलु 'तस्य' दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति ॥
आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अहावरे छुट्टे किरियट्टाणे मोसावत्तिपत्ति आहिजह से जहाणामए केइ पुरिसे आहे वा पाइहेडं वा अगारहेडं वा परिवारहेडं वा सयमेव मुखं वयति अण्णेणवि मुसं वाएह मुसं वयंतंपि अण्णं समणुजाण, एवं खलु तस्स तष्पत्तियं सावजंति आहिजइ, छट्ठे किरियट्ठाणे मोसावत्तिएत्ति आहिए | सूत्रम् २२ ॥ अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानले प्रायशः परोपघातो भवतीतिकृत्वा दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः स्वपक्षाचेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिवरूपमसद्भूतोद्भावनखभावं वा स्वयमेव मृषावादं वदति, तद्यथा नाहं मदीयो वा कञ्चिचौरः, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा परमचौरं चौरमिति वदति, तथाऽन्येन मृपावादं माणयति, तथाऽन्यांथ मृषावादं वदतः समनुजानीते । तदेवं खलु तस्य
Education Internation
षष्ठी मृषावाद- क्रिया आरभ्यते,
For Parts Only
~150~
www.juncturary org