SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१६], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१६] | मप्रधाने धर्मस्थाने धर्म्यस्थाने वा केचन महासचाः समासनोत्तरोत्तरशुभोदया वर्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसारा-18 भिवङ्गिणोऽधोऽधोगतयो वर्तन्ते । इह च यद्यप्यनादिभवाभ्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति लोकः पश्चात्सदुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते तथाऽप्यभ्यहिंतखात्पूर्व धर्मस्थानमुपशमस्थानं च प्रदर्शितं, पधात्तद्विपर्यस्तमिति ॥ साम्प्रतं तु यत्र प्राणिनामनुपदेशतः स्वरसप्रवृच्याऽऽदावेव स्थानं भवति तदधिकृत्याह-'तत्थ णं' इत्यादि, तत्रेति वाक्योपन्यासार्थे णमिति वाक्यालङ्कारे योऽसौ प्रथमानुष्टेयतया प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विभङ्गो-विभागो विचारस्तस्थायमर्थ | इति । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन 'मनुष्याः पुरुषाः, ते चैवंभूता भवन्तीत्याह, तद्यथा-आराधाताः सर्वहेयधर्मेभ्य इत्यार्याः सद्विपरीवाश्चानार्या एके केचन भवन्ति यावद्रूपाः सुरूपाश्चेति । 'तेषां च' आर्यादीनाम् 'इदं वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्डः-पापोपादानसंकल्पस्तस्य समादान-ग्रहणं । 'संपेहाए'त्ति संप्रेक्ष्य, तन चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति-'तंजहे' त्यादि, तयथा-नारकादिपु, ये चान्ये तथाप्रकारास्तदेदवर्तिनः सुवर्णदुर्वर्णादयः 'प्राणाः प्राणिनो विद्वांसो वेदना-ज्ञानं तद् 'वेदयन्ति' अनुभवन्ति, यदिवा सातासातरूपां वेदनामनुभवन्तीति, अत्र चखारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च १ सिद्धास्तु विदन्ति नानुभवन्ति २ असंझिनोऽनुभवन्ति न पुनर्विदन्ति ३ अजीबास्तु न विदन्ति नाप्यनुभवन्तीति ४, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्थाववस्तुभूताविति, 'तेषां च' नारकतिर्यअनुष्यदेवानां तथाविधज्ञानवताम् 'इमानि वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति । कानि पुनस्तानीति दर्शयितुमाह-'तंजहे' त्यादि, तद्यथेत्ययमु Soctersectroesesesea दीप अनुक्रम [६४८] ~1424
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy