________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् । ८९
पापैरस्ताम्बुगैईष्टे युते वा जन्मलग्नभे । सौम्यग्रहैस्तु नैवं चेत्तदा यातुः पराभवः ॥२८॥ अष्टमं खेन्दुलनाभ्यां ताभ्यां षष्ठमथ द्विषः । तद्राशिनाथयुक्तं वा लग्नं यातुरनर्थकृत् ॥ २९॥ कर्कवृश्चिकमीनानामुदयेशे च न व्रजेत् । मूर्तिस्थेऽहर्बले रात्रौ रात्रिवीर्येऽह्नि च ग्रहे ॥३०॥ सिद्ध्यै सौम्येश-४
नृपादेर्यजन्मलग्नं तस्मिन् लग्ने यात्रा शुभा, एवमग्रेऽपि भाव्यम् । अनेन चेदं सूचयतिआदौ तावज्जनुर्लग्ने ज्ञाते सति यात्रालग्नं देयं, नान्यथा, यतो जन्मलग्ने ज्ञाते सति दशायुर्ग्रहबलान्यवलोक्य दत्तं यात्रादिमुहूर्त फलदं स्यात् । “अज्ञातजन्मनोऽप्यन्यैर्यानं योज्यमिति स्मृतम् । प्रश्नलग्न निमित्ताद्यैर्विज्ञाते सदसत्फले ॥ १॥" इति रत्नमालायाम् । अत्र यानं योज्यमिति यात्रालग्नं देयमित्यर्थः । जन्मराशीति जन्मनि योन्दुः स जन्मराशिः स एवोदयो लनं तत्र यात्रा न शुभा । रत्नमालायां तु जन्मराशिलग्नेऽपि शुभा यात्रेत्युक्तम् । तयोरिति जन्मलग्नजन्मराश्योरपेक्षया ये उपचयस्थास्त्रिषड्दशैकादशा राशयः परेषु द्वयोरप्यनुपचयस्थराशिषु यात्रा नेष्टा । विशेषस्तु-राशेर्जन्मराशिर्जन्मलग्नं वा तदधिपो वा तत्काललग्नाच्चतुर्थे सप्तमे वा स्थानके भवतस्तदाऽपि यात्राकर्तुर्जयः । यदि च शत्रुसत्कजन्मराशिजन्मलमयोरुपचयगृहाणि चतुर्थे सप्तमे वा स्युस्तदापि जय एवेति रत्नमालायाम् ॥
1 यात्रालग्नकुण्डल्याम् । विशेषस्तु यात्रासमये जन्मकुण्डलिकसंबधिनी अष्टमषष्ठभवने क्रूरसौम्यग्रहाधिष्ठिते अशुभे । यदुक्तं दैवज्ञवल्लमे 'वधः प्रयातुस्त्वरिभिः प्रसूतौ रन्ध्रादिमे क्रूरशुभान्विते चेत्' । 2 षष्ठमस्यापि । 3 नवांशे । आद्ययोःकीटत्वेन यात्रायामक्षमतादर्जनम् । मीने तु प्रस्थितो वक्रेण पथा भ्रान्वा भ्रान्वाऽसिद्धकार्यः समेति । 4 यात्रालग्नस्थे। 5 सिद्ध्यै इति कार्येष्विति शेषः । नौयानमिति जलचरलग्ने, उपलक्षणखाजलचरनवांशे वा नौयात्रासिद्धिः। प्रवहणपूरणे च निर्विघ्नतालाभौ स्यातां । वश्यतामिति, उक्तं हि दैवज्ञवल्लमे-"चतुष्पदा द्वयंहिवशा विसिंहाः, सरीसृपश्चाम्बुचरास्तु भक्ष्याः । सिंहस्य वश्या विसरीसृपाः स्युरूह्यं जनोकव्यवहारतोऽन्यत् ॥ १॥ स्थलाम्बुसंभूतसरीसृपाख्या, भवन्ति वश्या बलिना खकानाम् । समा द्युसंस्था विषमान् भजन्ते, वश्या रजन्यां विषमाः समानाम् ॥ २॥" अनयोरर्थः-अजवृषसिंहा धनुरपराध मकराद्याधं च चतुष्पदाः, मिथुनकन्यातुलाकुंभा धनुराद्याधं च मनुष्याः, कर्कमीनौ मकरपश्चाधं च जलचराः, सरीसृपो वृश्चिक इति । ततश्च सिंहं विनाऽन्ये मेषवृषवृश्चिककुंभा मानुषाणां वश्याः, जलचराः कर्कमकरमीना मनुष्याणां भक्ष्याः, सिंहस्य वृश्चिकं विना सर्वे वश्याः। अन्यदिति वृश्चिकस्य सिंहोऽपि वश्यः। सर्वे पुराशयः कन्याया वश्याः, धनुषः सर्वोऽपि वश्य इत्यादि । स्थलाम्बुसंभूतेति यदि द्वावपि राशी स्थलजौ जलजौ सरीसृपौ वा तदा द्वयोर्मध्ये यो बलिष्ठस्तस्यैतरो वश्यः,यथा वृषस्य मेषो वश्यः, मकरस्य मीनकौं वश्यौ, वृश्चिकस्यापरो वृश्चिको बलहीनत्वे सति वश्यः स्यात् , मेषद्वयवृषद्वयादीनां संभवेऽपि च
जै० १२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com