SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८४ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गंमद्वारम् । प्रवेशः पृष्ठगे द्वयम् ॥ १६ ॥ 'हंसेऽन्तरा विशति दक्षिणतोऽथ पृष्ठे, कृत्वा रविं प्रवहनाडिपदं पुरश्च । सिद्ध्यै बजेदथ विजेतुमना विपक्ष३ पक्षं स्वतस्तु विदधीत विना न पक्षम् ॥ १७ ॥ शुक्रस्तु यत्रोदयति स्थयोदक्षिणापश्चिमे यदि गच्छेत् कर्कादिस्थयोश्चोत्तरापूर्वे यदि गच्छेत् , तदा सूर्ये मकरादिस्थे दिवा दक्षिणापश्चिमे यदि गच्छेद्, चन्द्रे वा कर्कादिस्थे रात्रावुत्तरापूर्वे यदि गच्छेत्तदा यातुधबन्धादिदोषाः ॥ ___ 1 अध्यात्मशास्त्ररीत्या हंसः प्राणवायुस्तस्मिन् विशति सति न तु निःसरति सति । यदाहुराध्यात्मिका:-"षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । अहोरात्रे नरे वस्थे प्राणवायोगेमागमः ॥१॥" प्रवहा प्रविशत्पवना पूर्णा नाडी नासारन्ध्ररूपा यस्य स्यात्तत्पदं वामं दक्षिणं वाऽहिं पुरः कृत्वा च सिद्धयै कार्यस्येति शेषः । उक्तं च विवेकविलासे-"दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरः । तं पादमग्रतः कृत्वा निःसरेन्निजमन्दिरात् ॥१॥ न हानिकलहोद्वेगाः कंटकैर्नापि भिद्यते । निवर्तते सुखेनैव क्षुद्रोपद्रववर्जितः ॥ २ ॥ दूरदेशे विधातव्यं गमनं तुहिनद्युतौ । अभ्यर्णदेशे दीप्ते तु तरणाविति केचन ॥ ३ ॥" अत्र तुहिनेति वामदक्षिणनाज्योः क्रमाचन्द्रसूर्यसंज्ञेयम् । विशेषस्तु-"दक्षिणनाड्यां पूर्णायां विषमपदैः १-३-५-७-९ गन्तव्यम् , प्रतीचीदक्षिणयोश्च न गन्तव्यम् । वामायां तु पूर्णायां समपदैः २-४-६-८-१० गन्तव्यम् , पूर्वोत्तरयोश्च न गन्तव्यमिति" खरोदयविदः । व्रजेदिति प्रस्तुतहंसचारादिशुद्धौ सत्यां जिनं प्रदक्षिणीकृत्य व्रजतो विशिष्य सर्वार्थसिद्धिः स्यात् । उक्तं च यतिवल्लमे"प्राणप्रवेशे वहनाडिपादं, कृत्वा पुरो दक्षिणमर्कबिम्बम् । प्रदक्षिणीकृत्य जिनं च याने, विनाप्यहःशुद्धिमुशन्ति सिद्धिम् ॥ १॥" उपलक्षणवाच्च प्रवेशेऽप्ययमेव विधिः । यदुक्तं दिनशुद्धौ-"पुन्ननाडिदिसापायं अग्गे किच्चा सया विऊ । पवेसं गमणं कुज्जा कुणंतो साससंगहं ॥ १॥" अथ विजेतुमना इति अरिं जिगीषुः सन् अर्थात्तमेव खतः सकाशात् आनो वायुस्तस्य पक्षं पार्श्व विना, एतावता शून्यपाधं कुर्यात् । केचित् वितानपक्षे इति पेठस्तत्र वितानशब्दः शून्यार्थः । कोऽर्थः ? रिक्तेऽङ्गे रिपुः कार्यों, न तु पूणे, यथा सुखाजीयते अर्थाच्चेष्टवर्गः पूर्णाङ्गे कार्यः । उक्तं च विवेकविलासे"अरिचौराधमर्णाद्या अन्येऽप्युत्पातविग्रहाः । कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः ॥ १॥ गुरुबन्धुनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सता ॥ २ ॥” दक्षिणतोऽथ पृष्ठे कृत्वा रविमित्येतदत्रापि योज्यम् । यदुक्तं यतिवल्लभे-“वहनाडिगतो वाच्यो दक्षिणेऽर्केऽर्थलब्धये । रिक्तनाडीगतः शत्रुर्जीयते पृष्ठगे रवौ ॥१॥" 2 शुक्रो यत्रेति यस्यां दिशि प्राच्या प्रतीच्यां वोदेति तद्दिशि यातां संमुखः स्यादित्यग्रे योज्यम् । भ्रमन् वेति यथा रवेर्धमणवशाच्चतुर्दिक्स्पर्शनमूचे तथा शुक्रोऽपि भ्रमन् यस्याः प्राच्यादिदिशो यां दिशं याति यदा मेषाद्याश्चत्वारश्चत्वारः पूर्वाद्या. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy