SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ तृतीयविमर्शी कार्यद्वारम् । १ शेषेषु च द्वयोः ॥ २३ ॥ चक्रे त्रिनाडिके धिष्ण्यमेकनाडिगतं शुभम् । तेनैकनक्षत्रेऽपि पादभेदाच्छुभमेव, एकपादत्वे तु न शुभम् । यदुक्तम्-"नक्षत्रमेकं यदि भिनराश्योरभिन्नराश्योरपि भिन्नमृक्षम् । प्रीतिस्तदानीं निबिडा नृनार्योश्चेत्कृत्तिकारोहिणिवन्न नाडिः ॥१॥" अत्र कृत्तिकारोहिणिवदिति यथा कृत्तिकारोहिण्योमिथो नाडीवेधोऽस्ति तथा नाडीवेधो यदि स्यादित्यर्थः । तथा-"नाग्निदहत्यात्मतनुं यथा वा, द्रष्टा खदृष्टेन हि दर्शनीयः । एकांशकत्वे समतैव तद्वन्न भर्तृभार्याव्यवहारसिद्धिः ॥२॥ एकपादत्वेऽपि शुभमेवेत्यन्ये । यदुक्तम्-"पराशरः माह नवांशभेदादेकक्षराश्योरपि सौमनस्यम् । एकांशकत्वेऽपि वशिष्ठशिष्यो नैकत्र पिंडे किल नाडिवेधः ॥ ३ ॥" शेषेषु च द्वयोरिति शेषेषूभयसप्तम १ दशमचतुर्थ २ तृतीयैकादशेषु ३ द्वयोरपि संबन्धिनोः श्रेय एव राश्योरेवात्र मैत्रीत्यतो न तदीशयोमैत्री विचार्या । यद्गदाधरः--राशिकूटे शुमे लब्धे ग्रहमैत्रीं न चिन्तयेत् । अलामे राशिकूटस्य ग्रहमैत्री तु चिन्तयेत् ॥ १॥" तत्रापि खामिमैत्र्ये एकखामिकत्वे च श्रेष्ठतरमेव । सर्वेषामेषां क्रमात् स्थापना पृष्ठ ६७-अत्रो. भयसप्तमेषु तृतीयैकादशेषु च खामिमैत्र्यचिन्ता नास्त्येव । दशमचतुर्थेषु खाये चतुष्टये मैत्री अन्त्यद्वयोरेकेशवं, तेनैतानि षट् श्रेष्ठतराण्युक्तानि, शेषाणि षट् स्वभावादेव श्रेष्ठानि । विशेषस्तु-आदौ तावद्भयोन्यादिशुद्धिर्बलिनी, ततोऽपि राश्योर्वश्यत्वं वक्ष्यमाणं, ततोऽपि राशीशग्रहयोमैत्री, ततोऽपि राश्योः खभावमैत्री बलिनी । यदुक्तम्"खभावमैत्री १ सखिता खपत्यो २ र्वशिख ३ मन्योऽन्यभयोनिशुद्धिः ४ । परः परः पूर्वगमे गवेष्यो, हस्ते त्रिवर्गी युगपद्युतिश्चेत् ॥ १॥ परं तारामैत्री नाडीवेधशुद्धिश्च सर्वत्र विलोक्ये एवेति। ग्रामधारणागति केऽप्येवमाहुः-"जन्मराशिस्थितो ग्रामनिषष्ठः सप्तमोऽपि वा । खकीयो द्रव्यनाशाय आपदा च पदे पदे ॥१॥ चतुर्थोऽष्टमको ग्रामो द्वादशो यदि वा भवेत् । यत्रैवोत्पद्यते अर्थस्तत्रैवार्थो विलीयते ॥ २॥ पञ्चमो नवमो ग्रामो द्वितीयो यदि वा भवेत् । दशमैकादशश्चैव शुभदः स फलप्रदः ॥ ३ ॥ ___ 1 जन्मनोऽभिधानस्य वा । विशेषस्तु-सुतसुहृदादीनां नाडीवेधसद्भावे विरुद्धयोनिकभयोगोऽपि न दुष्यति । दम्पत्योर्नाडीवेधे तु फलमेवम्-"हृन्नाडीवेधतो भर्तुमध्यनाडीव्यधे द्वयोः।पृष्ठनाडीव्यधे नार्या मृत्युः स्यान्नात्र संशयः॥१॥आद्यनक्षत्रसंगता या सा हृन्नाडी। "समासन्ने व्यधे शीघ्रं दूरवेधे चिरेण वा । वेधान्तरभमानेऽत्र वर्षे दुष्टं प्रजायते ॥२॥" अपि च यदि नक्षत्रवेधस्त्यक्तुं न शक्यते तदाऽपि पादवेधस्त्याज्य एव । उक्तं च नरपतिजयचर्यायाम्-"एतच्चक्र समालिख्य अश्विन्यायह्रिपङ्कितः । वेधो द्वादशनाडीभिः कर्तव्यः पतिकन्ययोः ॥ १॥ एवं निरन्तरो येषां दम्पतीनां भवेझ्यधः । तेषां मृत्यु संदेहः सान्तरस्वल्पदुःखदः ॥२॥” तथा तत्रैव ग्रन्थे दम्पतिवद्देवतामंत्रयोर्गुरुशिष्ययोगे च नाडीवेधो दुष्ट इत्युक्तम् । तथाहि-“एकनाडीस्थिता यत्र गुरुमंत्रश्च देवता । तत्र द्वेषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥१॥" सर्वेषां चैषां मैत्रीप्रकाराणां नाडीवेधो बलिष्ठः। यदुक्तम्-"सदा नाशयत्येकनाडीसमाजो, भकूटादिकान् सर्वभेदान् प्रशस्तान्" ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy