SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्शे गोचरद्वारम् । १→→ ॥ इति शन्यष्टवर्गः ॥ ७१555 सर्वत्रेन्दुः कुजः संख्ये बोधे 555 एषां चतुर्दशवृत्तानां ५२-६५ पिंडार्थोऽयं - आद्यवृत्तेऽर्क इति यदा यात्रादिकार्यचिकीर्षाऽस्ति तस्मिन् काले यः स तात्कालिकोऽर्कः । खमन्देत्यादि खशब्देने ह जन्मकालिकोऽर्को ग्राह्यः । एवं मन्दभौमादयोऽपि जन्मकालिका एव ततस्तात्कालिक र्काद्या जन्मसत्कार्कमन्दादिभ्यश्चेन्नवद्व्यादीनामन्यतरस्थाने स्युस्तदा शुभाः । ते सर्वेऽपि रेखां ददतीति परिभाषा । ततश्च यावद्भ्यो लग्नग्रहेभ्य उक्तान्यतरस्थाने तात्कालिका अर्काद्याः प्राप्यन्ते तावत्यो रेखा देयाः, यावद्भ्यश्च न प्राप्यन्ते तावन्ति शून्यानि देयानि एवमेकैकग्रहस्याष्टाष्ट रेखाः संभवेयुः, तासां मध्ये यदि चतस्रो हीना अधिका वा रेखाः स्युस्तदा मध्या अधमाः श्रेष्ठाश्च क्रमात् । एवं च यस्य ग्रहस्य रेखाबाहुल्यं स गोचरेणाशुभोऽपि शुभः, शून्यबाहुल्ये तु गोचरेण शुभोऽप्यशुभः । केऽप्याहुः - कार्य कालेऽष्टकवर्गरेखा न मील्यन्ते, किंतु यदा तदा वा जन्मकुंडलिकामेव सप्तशः संस्थाप्य आद्यकुंडलिकायां यत्र स्थानेऽर्कोऽस्ति तस्मान्नवमादिष्वष्टस्थानेष्वष्टौ रेखा देयाः । एवं मन्दभौमाभ्यामपि प्रत्येकमष्टाष्ट, गुरुतश्चतस्रः, शुक्रात्तिस्रः, बुधात्सप्त, लग्नात् षट्, एवं तस्यामर्काष्टवर्गकुंडलिकायां सर्वरेखा रवेरष्टचत्वारिंशत् । एवमेव द्वितीयादिषु चन्द्राद्यष्टकवर्गकुंडलिकासु क्रमात् सर्वरेखाः, एवं चन्द्रस्यैकोनपञ्चाशत् भौमस्य चत्वारिंशत्, बुधस्याष्टपञ्चाशत्, गुरोः षट्पञ्चाशत्, शुक्रस्य द्वापञ्चाशत्, शनेरेकोनचत्वारिंशश्चेति । उक्तं च - " वसुवेदौ १ नन्दवेदौ २ खवेदौ ३ वसुसायकौ ४ । षड्बाणौ ५ द्विशरौ ६ नन्दवही ७ रेखा इनादिजाः " ॥ १ ॥ एवं चैकैकग्रहाष्टवर्गकुंडलिकायां द्वादशस्वपि राशिस्थानेषु प्रत्येकं यावत्संभवं रेखा देयाः, शेषाणि शून्यानि च । उत्कर्षतश्चैवमेकत्र स्थाने यथायोगमष्टौ रेखाः संभवेयुः । ततः कार्यकाले यो ग्रहो यत्र राशौ स्यात्तत्स्थानं वीक्ष्यते, तत्र स्थाने रेखाधिक्ये संग्रहः शस्तः, शून्याधिक्ये त्वशुभ इति द्विधाऽपि चैकमेव तत्त्वं । अथासामुपयोग एवं - " चतूरेखे मध्यफलं हीने हीनं ततोऽधिके श्रेष्ठम् । विफलं गोचरगणितं त्वष्टकवर्गेण निर्दिष्टम् " श्रित्येदमुक्तं । तात्कालिकीनां सर्वग्रहरेखाणां मीलने तु षोडशमध्ये सप्तदशभ्य आरभ्योत्कृष्टाः षट्पञ्चाशतं यावत्तु स्युः । तत्र षड्विंशतिं यावदशुभा एव सप्तविंशत्या समता, अष्टाविंशत्यादयस्तु षट्पञ्चाशतं यावद्यथाबहुत्वं शुभशुभतरशुभतमाः । “रेखाधिक्यं शस्तं शून्याधिक्यं तथाऽधमं कथितम् । एतत्संयोगे स्युः षट्पञ्चा शन्न जातु अधिकास्ताः " ॥ १ ॥ अत्र षट्पञ्चाशदिति रव्यादिसप्तकस्य प्रत्येकमष्टाष्टरेखासंभवे षट्पञ्चाशत् एव तासां मेलनादिति भावः । विशेषस्तु - " चतूरेखं मध्यफलं ” इति यद्यप्युक्तं, तथापि यस्य ग्रहस्याष्टकवर्गशुद्धिस्तदानीं विलोक्यमानाऽस्ति तस्य शुद्धिपतेर्ग्रहस्य स्वतः समुत्था रेखा यदि संपद्यते तदा चतूरेखमपि श्रेष्ठम्, तदभावे षड्विधादिबलालङ्कृतस्य तन्मित्रग्रहस्य स्वतः समुत्था रेखा यदि संपद्यते तदापि चतूरेखं प्रशस्यम् । तस्या अप्यभावे स एव शुद्धिपतिर्ब्रहो यदि वामवेधेन शुभः स्यात्तदाऽपि ॥ १ ॥ एकग्रहमा - कदापि न स्यात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy