________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राशिद्वारम् । ३९ तयोः । साध्यवैधृतयोश्चान्ते धिष्ण्यं यत्तत्र वर्जयेत् ॥ ८४ ॥ ॥ इति योगद्वारम् ॥ ४॥६- इति वार्तिकानुसारेण प्रथमो विमर्शः समाप्तः ॥
॥अथ द्वितीयो विमर्शः ॥२ रोशिरथ तत्र मेषोऽश्विनी च भरणी च कृत्तिकापादः । वृषभस्तु कृत्तिकांत्रियान्विता रोहिणी समार्गार्धा ॥ १ ॥ मिथुनो मृगार्धमा पुनर्वसोश्चांयत्रयः प्रथमे । कर्की च पुनर्वस्वोः पादः पुष्यस्तथाऽश्लेषा ६ ॥२॥ सिंहस्तु मघाः पूर्वाफल्गुन्यः पाद उत्तराणां च । कन्योत्तरात्रिपादी हस्तश्चित्रार्धमाद्यं च ॥ ३॥ तौली चित्रान्त्यार्धं स्वातिः पादत्रयं विशाखायाः । स्याद् वृश्चिको विशाखाचतुर्थपादोऽनुराधिका ज्येष्ठा ॥ ४ ॥९ धन्वी मूलं पूर्वाषाढाऽपि च पाद उत्तराषाढः । स्यान्मकर उत्तराषाढांहित्रितयं श्रुतिर्धनिष्ठार्धम् ॥ ५ ॥ कुंभोऽन्यधनिष्ठाधं शततारा पूर्वभाद्रपात्रिपदी । मीनो भाद्रपदाहिस्तथोत्तरा रेवती चेति ॥ ६ ॥ मेषाच्छो-१२ णार्जुनहरिद्रक्तश्वेतैतमेचकाः। पिंगपिंगलकल्माषकडारमलिना रुचः॥७॥ उद्यद्घोषवतीगदं नृमिथुनं नौस्थाग्निसस्यान्विता, कन्या ना च तुलाधरो १४ ___1 अभिजितोऽगणनात् पादत्रयस्य वर्णा उत्तराषाढाया अन्त्यपादे तदन्त्यपादस्य च वर्णः श्रवणस्याद्यपादे ह्यन्तर्भाव्यः। 2 नवांशविचारणायां तु नवांशानामपि। प्रयोजनं चास्य विशिष्य नवांशेषु तच्चैवम्-धातुमूलजीवरूपं द्रव्यं किल नवांशाज्ज्ञायते । उक्तं च 'अंशकाज्ज्ञायते द्रव्यम्' । ततश्च तस्य धातुमूलार्देस्तुनो हृतनष्टादिप्रश्नऽनेन वर्णज्ञानं स्यात् । 3 तथा च सारङ्गः-"मेषो दैन्यमुपैति, गर्वति वृषो, नानामतिर्मन्मथः, शूरः कर्कटको, धृतिश्च वनपे, कन्या च मायाविनी । सत्यं रज्जुतुलाखलौ मलिनता, चापश्च पापाशयो,मौखयं मकरे, घटे चतुरता, मीने च धीरा मतिः” ॥ १॥ तथा मेषवृषौ दिवा आरण्यौ, निशि प्राम्यौ । मिथुनो ग्राम्यः । कर्कमीनौ जले । सिंहोऽरण्ये । वृश्चिकः प्रवासी । धनुःकुंभौ प्राम्यौ। मकरस्याद्योऽश आरण्योऽन्यो जलचर इत्यादि । प्रयोजनं चास्य हृतनष्टादौ चौरचेष्टास्थानादिज्ञानं । एषु च लग्नेषूचितकर्माण्येवं दैवज्ञवल्लभे-"राज्याभिषेकविरोध. साहसकूटकर्मादि धात्वाकरायं च मेषे लमे सिध्यति १ । विवाहवेश्मप्रवेशकन्यावरणादि. ध्रुवं कर्म क्षेत्रारंभपशुकर्मणी च वृषे २ । वृषोक्तं विद्याशिल्पभूषणादि च मिथुने ३ । सेवाभोगौ मृदुशुभकर्म पौष्टिकं वापीकूपादिजलकर्म च कर्के ४ । मेषोक्तं वाणिज्यनृपसेवारिपुमिलनादि च सिंहे ५ । शिल्पौषधभूषणवाणिज्यादिचरस्थिरं कन्यायाम् ६ । कृषि. सेवायात्रादि कन्योक्तं च तुलायाम् ७ । ध्रुवकर्म नृपसेवाचौर्यादिदारुणोग्रादिकर्म च वृश्चिके ८ । यात्रायुद्धव्रतसत्कर्मादि धनुषि ९ । क्षेत्राश्रयमम्बुयात्रा चरकर्म नीचक्रिया च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com