SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ पञ्चमविमर्श मिश्रद्वारम् । १११ धिष्ण्यं कार्याय पर्याप्तं चन्द्रभोगाद्हाहतम् । शुद्धं षड्भिर्भवेन्मासैरुपरागपराहतम् ॥ १६ ॥ वेधेनैकार्गलोत्पातपातलत्तामिधैरपि । दोषैरुपग्रहा-२ 1 पर्याप्तमिति योग्यं भवेदिति संटंकः । प्रहाहतमिति क्रूरग्रहेण विमुक्ताक्रान्तभो. ग्यत्वेन प्रहैरुदयास्तकरणेन वक्रिग्रहाक्रान्तबादिना वा दूषितम् । चन्द्रभोगादिति ग्रहकृतदोषापगमादनु यदि चन्द्रेण भुक्तं स्यात्तदाऽऽदरणीयमित्यर्थः । यदाह वराहः-“दोषैर्मुक्तं यदा धिष्ण्यं पश्चाचन्द्रेण संयुतम् । ततः पश्चाद्विशुद्धं स्यान्नान्यथा शुभदं भवेत् ॥१॥" लल्लस्वाह-"तत्सूर्येन्द्रो गात्कर्मण्यत्वं प्रयाति भूयोऽपि । धिष्ण्यं कर्मसु शुद्धं तापनिषेकात्सुवर्णमिव ॥ १॥" अत्र सूर्येन्द्वोर्नोगादिति सूर्येण ताप्यते पश्चाच्चन्द्रेण निर्वाप्यते इत्यर्थः । उपरागोऽर्केन्द्वोर्ग्रहणं(तेन) पराहतं दूषितं ग्रहणभमित्यर्थः, तत् षण्मासाँस्त्याज्यम्। यावन्नार्को भुंक्त तावत्त्याज्यमित्यन्ये । विशेषस्तु-"पक्षान्तरेण ग्रहणद्वयं स्याद्यदा तदाद्यग्रहणोपगं भम् । पक्षाद्विशुद्धं भवति द्वितीयग्रहोपगं शुध्यति मासषट्कात् ॥१॥” इति सप्तर्षयः । यत्र मे केतोरुदयः स्यात्तत्रैव षण्मासान् केतुरिति तदपि षण्मासाँस्त्याज्यम् । यस्मिन् दिनमे ताराग्रहयोभीमादिपञ्चकान्तरयोमिथो भेदनं स्यात्तदपि भं षण्मासाँस्त्याज्यम् । उकं च विवाहवृन्दावने-“यस्मिन् धिष्ण्ये वीक्षितौ राहुकेतू, भेदस्ताराखेटयोर्यत्र च स्यात् । आषण्मासाँस्तत्र लग्नेन्दुभाजि, भ्राजिष्णु स्यान्नो शुभं कर्म किञ्चित् ॥ १॥" यत्र दिनमेऽर्केन्द्रोग्रहणं स्यात्तत्र राहुवीक्षित इत्युच्यते, यत्र मे केतोरुदयः स्यात्तत्र केतुर्वीक्षितः कथ्यते । ननु कथं केतूदयभं ज्ञायते इति चेदुच्यते-"मेषेऽर्के सति रेवत्यां यदि याति विधुन्तुदः। भाद्रमासोत्तरार्ध स्यात् पुष्ये केतूदयस्तदा ॥१॥ सूर्ये वृषस्थितेऽश्विन्यां यदि याति विधुन्तुदः । आश्विनस्योत्तरार्धे तद्रोहिण्यां केतुरीक्ष्यते ॥ २ ॥ भरणीमिथुनस्थेऽर्के यदि याति विधुन्तुदः । कार्तिकस्योत्तरार्धे तदा या केतुदर्शनम् ॥३॥ कर्कस्थेऽर्के कृत्तिकायां यदि याति विधुन्तुदः । मार्गशीर्षापरार्धे तत्केतूदयः पुनर्वसौ ॥४॥ सिंहेऽर्के सति रोहिण्यां यदि याति विधुन्तुदः।पौषमासापरार्धे तदश्लेषायां निखीक्ष्यते ॥५॥ कन्यास्थेऽर्के मृगशीर्ष यदि याति विधुन्तुदः । माघमासोत्तरार्धे तच्चित्रायां दृश्यते शिखी ॥६॥ तुलार्के सति आद्रोंयां यदि याति विधुन्तुदः । फाल्गुनस्योत्तरार्धे स्यान्मूले केतूदयस्तदा ॥७॥ वृश्चिकेऽर्के पुनर्वखोर्यदि याति विधुन्तुदः । चैत्रमासोत्तरार्धे स्यात् खातो केतूदयस्वदा ॥८॥ धनुःस्थिते रवी पुष्यं यदि याति विधुन्तुदः।वैशाखस्योत्तरार्धे स्यान्मूले केतूदयस्तदा ॥९॥अश्लेषां मकरस्थेऽर्के यदि याति विधुन्तुदः।ज्येष्ठमासोत्तरार्धे तज्येष्ठायां दृश्यते शिखी ॥१०॥ कुंभस्थेऽर्के मघा धिष्ण्यं यदि याति विधुन्तुदः। आषाढमासोत्तरार्धे श्रुतौ केतूदयस्तदा ॥११॥ मीनेऽर्केऽपरफल्गुन्यां यदि याति विधुन्तुदः। श्रावणस्योत्तरार्धे तद्वारुणे दृश्यते शिखी ॥ १२ ॥ इदं त्रिविक्रमशतकटीकायाम् । उल्कापातपरिवेषहतमपि भं षण्मासाँस्त्याज्यमित्येके ॥ 2 वेधेन सप्तरेखपञ्चरेखचक्राभ्यां वर्णितेन । उत्पाता भौमाद्यास्ते यस्मिन् दिनमेऽऽभूवस्तद्भमुत्पातदूषितम् । अपिशब्दाद्ग्रहयुद्धाद्यैरपि एत. दोषदुष्टान्यपि च भानि तदोषापगमादनु चन्द्रभुक्त्या शुद्धानि स्युरिति रत्नभाष्ये ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy