SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे वास्तुद्वारम् । ९९ शोभनाः ॥ ६६ ॥ ध्वजः पदे तु सिंहस्य तौ गजस्य वृषस्य ते । एवं निवेशमर्हन्ति स्वतोऽन्यत्र वृषस्तु न ॥ ६७ ॥ आयो दैान्ययोर्घातः फलमष्टहृतेऽधिकः । फलमष्टगुणं भाप्ते भं तत्राष्टहृते व्ययः ॥६८॥ फैले ३ व्ययेन वेश्माख्याक्षरैश्चान्ये त्रिभाजिते । अंशाः शक्रान्तकक्ष्मापास्तेषु स्यादधमो यमः ॥ ६९ ॥ ध्रुवं धन्य जयं नन्दं खरं कान्तं मनोरमम् । सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥ ७० ॥ आक्रन्दं विपुलं ६ ___1 यव ६ अंगुल=१ । २४ अंगुल हाथ १। चारहाथ दंड १। “न हस्तमानेन गुणान्वितं स्याद्यदा तदा तद्गणितोक्तयुक्त्या । प्रदाय हिला यदि वाङ्गुलानि, प्रसाधयेत्क्षेत्रफलं शुभायम् ॥ १॥" अत्र शुभायमित्युपलक्षणं, तेन नक्षत्राद्यपि यथा तस्मिन् गृहेऽनुकूलमुत्पद्यते तथा क्षेत्रफलं साध्यम् । नक्षत्रानुकूल्यप्रकारश्चाग्रे वक्ष्यते-"प्रारब्धं संमुखे चन्द्रे" (७१ पृष्ठे) इत्यादिना । विशेषस्तु-"गृहेषु कर्मिकहस्तेन मानं खामिकरण वा। देवतानां तु धिष्ण्येषु कर्मिहस्तेन केवलम् ॥१॥" अत्र कर्मिहस्तः कांबिक (कार्मिक)हस्त इत्यर्थः । तथा देवगृहे भित्तिबाहुल्यं क्षेत्रफलमध्ये गण्यते, अन्यत्र तु भित्तयः क्षेत्रफलात् पृथग्गण्याः । उक्तं च-"क्षेत्रफलान्तभित्तीर्देवगृहेऽपि प्रकारयेद्विद्वान् । आक्रम्य बाह्यभूमि क्षेत्राद्भित्तीर्नृणां गेहे ॥१॥” इति व्यवहारप्रकाशे । इत्युक्का आयाः । अथ जन्मभम्-तत्र सामान्येन वास्तुनस्तावजन्मभं कृत्तिका । यदुक्तं व्यवहारप्रकाशे-“भाद्रपदतृतीयायां शनिदिवसे कृत्तिकाप्रथमपादे । व्यतिपाते रात्र्यादौ विष्ट्यां वास्तोः समुत्पत्तिः ॥ १॥" इष्टवास्तुनस्तु जन्मभानयनमेवम्-फलमष्टगुणमिति अधिकशब्दोऽप्रे सर्वत्र संबध्यते, फलाकोऽष्टगुणो भाप्ते इति भैः सप्तविंशत्या भागे यदधिक शेषं तिष्ठत्तदिष्टवास्तुनो जन्मभम् । अस्मादेव भात् गृहाणां खामिना सह षडष्टमकादि चिन्त्यते । तत्राष्टेति । तस्मिन् भाङ्केऽष्टभिर्भके शेषाङ्केन व्ययः स्यात्, अष्टभिर्भागाप्राप्तौ तु भाङ्क एव व्ययाङ्कः, व्ययश्च त्रेधा-पैशाच १ यक्ष २ राक्षस ३ भेदात् । यत्सारंग:"पैशाचस्तु समायः स्याद्राक्षसश्चाधिके व्यये । आयात्तनतरो यक्षो व्ययः श्रेष्ठोऽष्टधा लयम् ॥ २ ॥ शान्तः १ क्रूरः २ प्रद्योतश्च ३ श्रेयान ४ थ मनोरमः ५ । श्रीवत्सो ६ विभवश्चैव ७ चिन्तात्मको ८ व्ययोऽष्टमः ॥ २॥" अत्रैकशेषे शान्तो व्ययः, द्विशेषे क्रूरः यावत् शून्यशेषे चिन्तात्मक इति भावना ॥ 2 क्षेत्रफलाङ्के व्ययाङ्के तद्गृहनामाक्षरसंख्यां च क्षित्वा त्रिभिर्भागे यच्छेषं सोऽशः । तथाहि-एकशेषे इन्द्रांशः द्विशेषे यमांशः शून्यशेषे राजांशः ॥ 3 एताः किल ध्रुवादिसंज्ञाः सान्वर्थाः, तेन खर १ दुर्मुख २ क्रूर ३ क्षया ४ क्रन्दा ५ ख्यानि गृहाणि अशुभानि । तदुक्तं वास्तुशास्त्रे- "स्थैर्य १ धनं २ जयः ३ पुत्रा ४ दारिद्यं ५ सर्वसंपदः ६ । मनोह्लादः ७ श्रियो ८ युद्धं ९ वैषम्यं १० बान्धवा ११ धनम् १२ ॥१॥ क्षयश्च १३ मृत्यु १४ रारोग्यं १५ सर्वसंपदि १६ ति क्रमात् । ध्रुवादीनां फलं ज्ञेयं" इति। केचित्सुपक्षस्थाने विपक्षनामाहुः । पस्त्यानि गृहाणि ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy