________________
जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ९७ न्येषां राज्ञां योगैश्च ते त्वमी ॥ ५१॥ अर्कार्किशशिनः सिद्ध्यै राज्ञां लग्नारिमध्यगाः (१) । सितेज्यमन्दज्ञाराश्च लग्नास्तत्रिसुखारिंगाः (२) ॥५२॥ शुक्रज्ञार्काश्च लग्नस्वभ्रातृषु क्रमशः श्रिये (३)। लग्ना-३ रिंगौ च जीवार्की जयदौ व्यष्टमे विधौ (४) ॥ ५३ ॥ मन्दारौ त्र्यायषट्सु ज्ञसितेज्याश्चोत्कटाः श्रिये (५)। केन्द्रे च बलिनौ ज्ञेज्याविन्दौ त्वापोक्लिमेऽबले (६)॥ ५४॥ श्रिये विधुः सुखेऽस्ते तु ६ सितज्ञौ (७) व्यत्ययेन वा (८)। याने त्रिकोणकेन्द्रस्थाः सौम्याः षट् आयगाः परे (९)॥ ५५ ॥ जयाय मूर्ती मार्तण्डः सौम्यः स्खे सप्तमो विधुः (१०)। बृहस्पतिर्वा केन्द्रस्थः शेषेषु स्वायवर्तिषु (११) ९ ॥ ५६ ॥ यांतुः प्राग्दक्षिणयोर्जसितान्तर्जयकरः सुखे चेन्दुः (१२)। गुरुरेकान्तर आर्के (१३) ज्ञों वा शुक्राच (१४) भौमावा (१५) ॥ ५७ ॥ गुरुर्जयाय लग्नस्थः क्रूरैर्लाभ भोगतैः (१६) । तथा चन्द्रे-१२ ऽष्टमे षष्ठे शुक्रे लग्नगतो गुरुः (१७) ॥ ५८ ॥ सिद्ध्यै धीधर्मकेन्द्रेषु बुधवाक्पतिभार्गवैः । योगोऽधियोगो योगाधियोगैश्चैकैद्वितंत्रिकैः ॥५९॥ शुक्र व्यायाम्बुगं पश्यन् जीवो यात्रासु केन्द्रगः । राज्ञां दत्ते जयं क्रूरैः १५ ___ 1 वैश्यशूदकार्वादीनाम् । तिथिवारभलग्नादिशुद्धिनिरपेक्षमपि । 2 अर्धद्वयेऽपि यथासंख्यं योजना ॥ 3 क्रमश इत्युत्तरार्धेऽपि योज्यम् । व्यष्टमे इति यदीन्दुरष्टमगृहे न स्यात् ॥ 4 उत्कटा इति यत्रतत्रस्था अपि बलिन इत्यर्थः । चन्द्रे आपोक्लिमस्थे निर्बले च सति ॥ 5 सितज्ञौ सुखे, चन्द्रोऽस्ते इति व्यत्ययः । याने इति यात्रायां श्रिये स्युरिति योगः । परे क्रूराः ॥ 6 खं द्वितीयं । शेषेषु क्रूरसौम्येषु सर्वेषु । एवं योगा एकादश ॥ 7 प्राच्या दक्षिणस्यां वा चेद्यात्रा तदा ज्ञशुक्रयोर्मध्येऽन्तराले तिष्ठन्निन्दुः शुभः । परं यदि सुखे-तुर्यस्थाने स्यात्तदैव शुभः, नान्यथा । प्रतीच्युदीच्योस्तु यात्रायामयं योगो नापेक्ष्यः । तथा गुरुरेकान्तर इति शनितो गुरुरेकान्तरगृहे स्थित इसको योगः । ज्ञो वेति शुक्राद् बुध एकान्तरगृहे स्थित इति द्वितीयः। भौमाद् बुध एकान्तरगृहे स्थित इति तृतीयः । दैवज्ञवल्लभेऽप्युक्तम्-"भृगुजादथवा महीसुताद् बुध एकान्तरमे स्थितो यदा । रविजादथवा गुरुस्तदा, व्रजतो यान्त्यरयः क्षयं रणे ॥१॥" तदेवमत्र श्लोके योगाश्चत्वारः। 8 एते सर्वे प्रत्येकयोगाः सप्तदश ॥ 9 योगेन यो याति नृपोऽ. रिदेशं सुखेन सोऽभ्येत्यऽधियोगयाता । प्राप्नोति कीर्ति विजयं धनं च, योगाधियोगेन महीमशेषाम् ॥ इति दैवज्ञवल्लभे । विशेषाम्नायस्तु सुधीशृङ्गारवार्तिकेऽवलोक्यः ।
जै० १३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com