________________
( १७१) पाद. १२ (मनुष्टुभ् )
प्रतापतपनः कोऽपि मौलराजेनवोभवत् ।
रिपुस्त्रीमुखपमानां नो सेहे यः किल श्रियम् ।। १३ ॥ पाद. १३ (अनुष्टुभ् )
कुर्वन्कौंतलशैथिल्यं मध्यदेशं निपीडयन् ।
अंगेषु विलसन्भूमेर्भाभूभीमभूपतिः ॥ १३ ॥ पाद. १४ ( अनुष्टुभ् )
श्रीभीमप्रीतनोत्खातरजोभिर्वरिभूभुजाम् ।
अहो चित्रमवर्धन्त ललाटे जलबिन्दवः ॥ १४ ॥ पाद. १५ (अनुष्टुभ् )
कर्ण च सिद्धराजं च निर्जित्य युधि दुर्जयम् ।
श्रीभीमेनाधुना चक्रे महाभारतमन्यथा ।। १५ ।। पाद. १६ ( उपजाति) दुर्योधनोपितिजेत्रबाहु-गृहीतचेदीशकरोवतीर्णः।
अनुग्रहीतुं पुनरिन्दुवंशं, श्रीभीमदेवः किल भीम एव ॥१६॥ पाद. १७ (आर्या)
अगणितपश्चेषुबलः पुरुषोत्तमचित्तविस्मयं जन्य(नय)न् ।
रामोनासनमूर्तिः श्रीकर्ण: कर्ण इव जयति ॥ १७ ॥ पाद. १८ (मनुष्टुभ् )
भकृत्वासननिर्बन्धमभित्ता पावनों गतिम् । सिद्धराजः परपुरप्रवेशवशितं ययौ ॥ १८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com