________________
(१७२ ) श्रीमूलराजप्रभृतिराजपूर्वज(भूभृताम् । वर्णवर्णनसंबद्धं पादांते श्लोकमेककम् ॥ १०२ ।। (१०१) तच्चतुष्कं च सर्वाते श्लोकैस्त्रिंशद्भिरभुता । पंचाधिकैः प्रशस्तिश्च विहितावि(व)हितैस्त (त:)॥१०३।। (१०२)
युग्मम् ॥ राजःपुर (जगुरु-ज्ञः पुरः)पुरोगैश्च विद्वद्भिर्वाचितं ततः । चक्रे वर्षत्रयर्षेव (त्रयेणैव) राज्ञा पुस्तकलेखनो (न) ।।१०४ (१०३) राजादेशानियुक्तैश्च सर्वस्थानेभ्य उद्यतैः । दावाहूवसञ्चके (समाहूयतपट्टने) लेखकानांशतत्रयम् ।१०५(१०४) पुस्तकाः समलेख्यंत सर्वदर्शनिनां ततः। प्रत्येकमेवादीयंताध्येतणामुद्यमस्पृशाम् ॥ १०६ ।। (१०५)
विशेषकम् ॥ अंगवंगकलिंगेषु लाटकर्णाटकुंकणे। महाराष्ट्रसुराष्ट्रासु वच्छे(त्से) कच्छे च मालवे ॥१०७॥(१०६) सिन्धुसौवीरनेपाले पारसीकमुरडयोः।। गंगापारे हरिद्वारे काशीचेदिगयासु च ॥१०८॥ (१०७) कुरुक्षेत्रे कन्यकुब्जे गौडश्रीकामरूपयोः । सपादलक्षवजालंधरे च खसमध्यतः ॥ १०९ ॥ (१०८) सिंहलेऽथ महाबोधे चोडे मालवकौशिके। इत्यादिविश्वदेशेषु शास्त्रं व्यस्तार्यत स्फुटम् ॥ ११० ॥ (१०९)
चतुर्भिः कलापकम् ॥ 'मम्यमोय (अन्येषां च ?) निबन्धानां पुस्तकानां च विंशतिः । प्राहीयत नृपेंद्रेण काश्मीरेषु महादरात् ।। १११ ॥ (११०)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com