________________
[ ४७ ] कारेकः प्रतिभूः ? संग्रामसौवर्णिकेनोक्त महमेव शाहिनोक्तं त्वं प्रतिभूः परं यद्ययं न फलिष्यति तदा तत्र किं कर्तव्यम् ? साधुनोक्तं यदस्य वृक्षस्य क्रियते तन्ममेति श्रुत्वा श्रीशाहिना आत्मीयास्तत्र पंच नराः स्थापिताः । तेषामुक्तं नित्यं विलोक्यमयमात्रस्य किं करोति । अथ संग्राम सौवर्णिकस्तत्रनित्मागत्य स्वपरिधानवस्त्रांचलप्रक्षालन जलेन तमाम्रं सिं. चतिस्म, वक्ति च, अहो आम्रतरो ! यद्यहं सद, संतोषवते दृढचित्तोऽस्मि तदा त्वयाऽन्याप्रेभ्यः प्रथमं फलितव्यं नान्यथेति । एवं षण्मासं यावत् सिक्तः । इतश्व वसन्धर्तुरायातः तदा पूर्वमयमात्रः पुष्पितः फलितश्च । तत् फलानि सौवर्णिकसंग्रामेन श्री शाहेः पुरो दौकितानि । श्री शाहिनोक्तं कानीमानि फलानि ? श्री साधुनोक्तं तद्न्ध्याम्रस्य इति श्रुत्वा श्री शाहिना भृशं नराः पृष्टाः तैर्यथावृत्तं सर्व निगदितं तत् श्रुत्वा परमचमत्कारप्राप्तेन श्री शाहिना अनेकनररत्नभूषितायां सभायां सर्वजन - समक्षं भृशं संग्रामसौवर्णिकः प्रशंसितः सप्तकृत्वः परिधापितश्च । अत्युत्सवपुरःसरं गृहे प्रेषितः । ततः
Shree Sudharmaswami Gyanbhandar-Unwaway.Soratagyanbhandar.com
•