________________
(१२)
त्वेऽपि यत्पार्थक्येनोपादानं तत्तस्य प्राधान्यख्यापनार्थ मिति
सन्नद्ध धीरवर वीर सवेग-बाण, छायानिरुद्ध तरुणारुण चंडबिंबे । संपन्न घोरतुमुले गुरु भीरुकम्पे, . कंकाल संकुल भयावह भूमि भागे ॥ १७॥
भल्लासि भिन्न हय वारण वारवाण, साडंबरारिकरणा-वरणे दुरंते । चित्ते चिराय तव नाम वरं वहन्तो, वीरं नरा रणभरेरि बलं जयन्ति ॥१८॥ युगलकं ।
सन्नद्धत्यादि । भल्लेत्यादि । अत्र काव्यद्वयेन संबन्धः । पूर्व संग्रामविशेणानि वाच्यानि । ततोरिपुपराजयो वाच्यः। सनद्धाः कनचादिमंतो धीरा अभीरवो वरा युद्ध कुशला एषां द्वन्द्वे सन्नद्धधीरवराः ये वीराः सुभटाःप्रतिभटास्तेषां सवेगा महाप्राण मुक्तत्वेन वेगवन्तो ये बाणास्तेषां छायाः श्रेण्यः । 'छायापंक्ती प्रतिमायामयोषित्यनातपे । उत्कोचे पालने कांती शोभायां च तमस्यपि ॥ इति हैमानेकार्थेोक्तेः। ताभिनिरुद्धं आच्छादित तरुणारुणस्य तरुणार्कस्य चण्डं मंडलं विवं यत्र स तस्मिन् । संपन्नोजातो घोरो रोद्रस्तुमुलो व्याकुलो ध्वनि यंत्र स तथा तस्मिन् । गुरुर्महान् भीरूणां कातराणां कंपो वेपथुर्यस्मात् स तथा तस्मिन् । कंकाल संकुलोऽस्थिपिञ्जरव्याप्तोऽत एवमयावहो भयंकरोभूमिभागो रणक्षेत्रं यत्र स तथा तस्मिन् ॥१७॥ 'भलं भल्लूकबाणयोरिति अनेकार्थेक्तिः। भल्ला बाणा लोकोक्त्या कुंता वा असयः खङ्गास्ततो द्वन्द्वे ते तथा ते मि. नानि विदारितानि, हया अश्वा वारणा गजावारवाणा: कंचुकाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com