SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (१३) साडंपरारीणां ससंरंभं रिपूणां करणानि शरीराणि आवरणानि खेटकादीनि ततो द्वन्छे तानि यत्र स तथा तस्मिन् । दुरंते दुरवगाहे एवंविधे रणभरे संग्रामपूरे हे स्वामिन् ! तव नाम वीरेत्यभिधानं वरं-प्रशस्यं चित्त-मनसि चिराय-चिरकालं वहंतो ध्यानकतानतया स्मरन्तो नराः शूरपुरुषा वीरं रणनिपुणं अरिवलं विपक्षसैन्यं जयन्ति पराभवन्ति-पराङ्गमुखी कुर्वन्तीति । तदिदमापनं यदैहलौकिकजयार्थिनाऽपि भगवन्नामैव ध्येयमिति । काव्य युगलकार्थः ॥ १७-१८ ॥ संवित्ति वित्त करुणारस वारिकुण्डं, पीडाहरं गुण-समूहमणीकरंडम् । संसार सिंधुजल कुम्भभवं भवन्तं, सेवंतिकेन भगवंत-पघं हरन्तम् ॥ १९ ॥ संवित्तीत्यादि । संवित्तिः शेमुषीज्ञानमित्यर्थस्तया वित्तः प्रसिद्धः स तथा, तस्यामंत्रणं हे संवित्तिवित्त ! हे प्रभो भवंतं त्वां के जना न सेवन्ति अपितु सर्वेऽपि सेवन्ति । किंभूतं करुणारसः कृषारसः स एव सर्वप्राणिजीवन त्वाद्वारिजलं तस्य कुण्डमिव कुण्डं करुणारसवारिकुण्ड, पीडाहरं व्यथावारकं गुण समूहमणीकरंडं गुणगणरत्नभाजनं संसारएवापारत्वात् सिन्धुः समुद्रस्तस्य जलं तत्र कुंभभवोऽगस्तयस्तं । भगवन्तं शानादिगुणसमृद्ध अघं-पापं हरन्तं-स्फेटयन्तं ॥ १९ ॥ संचारभूचरण-केवल-सिद्धिवास, संवासवासर वरा इह वीरदेव ।। देवा सुरोरगकुमार सहेल भूमी, चारेण ते परम मुद्धव मावहन्ति ॥२०॥ संचारेत्यादि । संचारो देवानन्दायास्त्रिशलायाश्च गर्भShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034777
Book TitleBhavarivaran padpurti Stotra Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherHindi Jainagam Prakashak Samiti
Publication Year1950
Total Pages55
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy