________________
(७) कोकिलानदारवटामो-मनोहर पारवः-शम्दो यस्याःमा तथा। 'शाकपार्थिवादित्वा' मध्यस्थारवशब्दस्य लोपः।तरणा-युवानस्तेषां चित्तानि मनांसि, तान्येव मदनमदोन्मत्तत्वसाधात् करेणवो-गजास्तेषां प्राहादहेतुत्वानेवेवरेवा-नर्मदातरुणचित्तकरेणुरेवा। नागेनी हे विभासुर! • दीप्र! सुगसुरसुन्दरी सामान्येन देवांगना वा 'जातिनिर्देशादेकवचन' ते-तव विमलाभिसंधिं विमलो-विकारकारणसद्भावेऽपि विकारमलरहितो योऽमिसंधिश्चित्तभावस्तं । अथवा विमलेति भगवतः सम्बो. धनं । किमित्याह-निहंतुं पातयितुमन्यथाकर्तुमिति यावत् इह जगति नाऽलं न समर्थाभूदिति काव्यत्रयार्थः ॥७-८९॥ त्रिभिःकुलकमित्येकवाक्येनैव काव्यत्रयोपनिबन्धमापक'मित्यर्थः ॥
अंहोमयं निविडसंतमसं हरन्ती, सन्देहकीलनिवहं सममुद्धरन्ती। हिंसानिबद्धसमयानयधीदुरूह
सम्बन्धबुद्धिहरणी तव देव ! वाणी॥१०॥ मंहोमयेत्यादि । अंहोमयं-पापरूपं निविडसंतमसंसान्द्राधिकारं हरन्ती-नाशयन्ती । संदेहा एव मनःशल्यतुल्यताधायित्वात् कीलाः शंकवस्तेषां निवहः-मूहस्तं संदेह कोलनिवहं समं-सर्व समकालमेव वा उद्धरंती-उत्खनन्ती। एकवचसैवभगवतः सर्वसंदेहसंदोहापोहात् । हिंसानिबद्धाःप्राणिवघोक्तियुक्ता ये समयाः सिद्धान्ता: पापधुतानि, अनयधियः- अन्यायबुद्धयो दुलहा दुर्वितस्तितो द्वन्द्वस्तेषु या संबंधबुद्धिरभिनिवेशावत्यासक्तिस्तस्या हरणी, तन्निवारिणीत्यर्थः ।दशी हे देव! तव वाणी-वाङ्मम प्रमाणमिति गम्यते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com