SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ (८) इत्यर्थः ॥१०॥ गम्भीरिमालयमहापरिमाणमंग, सम्बद्धभंगलहरीबहुभंगिचंगम् । नीगलयं नयमणीकुलसंकुलं वा, देवागमं तव नरा विरला महन्ति ॥११॥ गंभीरिमेत्यादि । गंभीरिमा गांमीर्ये तस्य पालयो गंभीरिमालयो महत्परिमाण-प्रमाणं यस्य स महापरिमाणस्ततः कर्मधारयस्तं गंभीरिमालयमहापरिमाणं अथवा गंभीरिमाल येति भवगतः संबोधनं । तथा अंगेषु-आचारादिषु संबद्धाःप्रतिपादिता ये भंगा-भंगकास्त एव लहर्योऽतिगहनसंख्यस्वात् कल्लोलास्तासां बहुभंगयो-बहुविच्छित्तयोऽवान्तरमेदरूपास्ताभिश्चंगो-मनोहरस्तं । 'नीरालयं नयमणीकुलसंकुलं वा' अत्र पादान्तस्थो धा शब्द इवार्थे । स च नीरालय मित्यस्याग्रे योज्यस्ततश्च नीरालयं वा-समुद्रमिव । नगा एव चतुरपरिच्छेद्यत्वान्मणीकुलानि-रत्नसमूहास्तैः संकुलो-व्याप्तः स तथातं। हे देव! तवागम-द्वादशांगाख्यं प्रवचनं नरा-भव्यपुरुषाः विरलाः केचिदेवासन्नसिद्धिका महंति:द्रव्यतो भावतश्चाभ्यर्चयन्ति । अत्र भगवदागमः सागरोपम या वर्णितः सागरोs पिगांभीर्याश्रयो महाप्रमाणः कल्लोलरम्यो रत्नपूर्णश्च भवतीत्युपमालेषः ॥१९॥ मेरीरणं दिवि सुदायगिरं भणन्तो, देवा वहन्ति तव पारणदायिगेहे। घाराचयं वसुमयं च सचेलचालं, मंदारकुन्दकबरं कुसुमं किरति ॥१२॥ मेरीत्यादि । मेरीरणे दुंदुभिनादं दिषि-गगने · सुदायShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034777
Book TitleBhavarivaran padpurti Stotra Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherHindi Jainagam Prakashak Samiti
Publication Year1950
Total Pages55
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy