________________
आषाढ़चातुमा०
| व्याख्या
नम्।
॥४॥
HRSSHRSHASHA
तिष्ठेत् , विरतेमहाफलत्वादविरतेश्च बहुकर्मबन्धादिदोषाच्च । अत्र च वर्षासु विशिष्य ते ग्राह्याः, तत्र त्रिवि पूजादुर्गमिति मत्वा धर्मणवत्यां नौकायां प्रक्षिप्य स्थिता । इतश्च केनचित् खलेन नृपकथाशेषत्वमुक्तं । ततः सा तां नावमाक्रम्य जलतले प्राक्षिपत् । सा मृत्वा जिनध्यानेन सुरो भूत्वा एतद्विम्बभक्तो जातो भविष्यति । अन्यथा महिमा कथं स्यात् ? । तत्रैकं बिम्बं भवद्भि
रानीतं । द्वितीयं तत्रास्ति ।" इति श्रुत्वा तद्विम्बग्रहणायानेकोपायानकार्षीत् । न च तन्निर्गतम् । श्रूयतेऽद्यापि वर्षमध्ये एकदिने दर्शनं है ददाति । अथ श्रीवीरबिम्बापेक्षया लघीयस्तरं श्रीपार्श्वनाथबिम्बं इति महावीरस्यार्भकोऽयं देव इति मत्वा 'चेल्लण' इत्याख्या लोकाः प्राची
कथन् । सा सिंहगुहापल्ली क्रमान्महापुरं जातं । अद्यापि श्रीवीरः सचेल्लणपार्श्वनाथः संधैर्यात्रोत्सवैराराध्यते इति । अन्यदा वकचूल द्र उज्जयिन्यां राजकोशावहिर्गोधापुच्छे विलग्य प्राविशत् । कोशो दृष्टः । राजाप्रमहिष्या रुष्टया पृष्टः-'कस्त्वं । तेनोचे-चौरोऽहं । है तयोक्तं-'मा भैषीः, मया सह संगमं कुरु ।' सोऽवोचत्-'का त्वं ।' साप्यूचे-'नृपराज्यहं ।' चौरोऽवादीत्-'यद्येवं वहि
ममाम्बा भवसि, अतो यामि ।' इति श्रुत्वा तया स्वनखैः स्वानं विदार्य पूत्कृतिपूर्वकमाहूता रक्षकाः । तैर्बध्ध्वा रक्षितः । तदा छनो नृपोऽप्यचिन्तयत्-अहो ! स्त्रीचरित्रं कीदृशं ।' ततः प्रभाते सभायां तैः स नृपस्य पुरो नीतः । नृपेण बन्धनान्मोचितः, नत्वोपाविशत् । 'कथं मन्मन्दिरे त्वं समागतः ?' इति नृपेण कथिते सति वकोऽवदत्-'देव ! चौर्यायाहं प्रविष्टः, पश्चायुष्मद्देव्या दृष्टोऽस्मि ।
यावदन्यन्न कथयति तावत्तुष्टो नृपस्तं पुत्रतयाऽरक्षत् । मार्यमाणां देवीं ररक्ष सः । 'अहो ! नियमानां शुभं फलं' इत्यजस्रं दध्यौ । एकदा द्र नृपेण युद्धार्थ प्रेषितस्तत्राहवे गाढप्रहारादितः सेवकैः नृपाप्रे नीतः, बहुवैद्या आकारिताः, तैः काकमांसौषधं प्रोक्तं, स नेच्छति, तदा |
तन्मित्रजिनदासो भूपेनाहूतः । जिनदासोऽवन्ती समागच्छन् वने द्वे देव्यौ रुदत्यौ अद्राक्षीत् । तेन पृष्टे-'कि रुदिथः। ताभ्यामुक्तं
RAKAKARWAGAARAK
॥४॥
SHRSHAS
Shree SudharmaswamiGyanbhandar-Umara, Surat
www.umaragyanbhandar.com