________________
आषाढचातुमा
॥३॥
RECORRECOGERCHER
एवं सर्वसचित्तादीनि परिहमशक्तो यानि विना यदा निर्वहते तानि तदा परिहरति । यथा-यस्य यत्र यदा यन्न व्याख्याभवति । यथा-निःखस्य हस्त्यश्वादि, मरुदेशे नागवल्लीदलानि, खखकालं विनाऽऽम्रफलादि च । स तत्र तदा वा
नम्। तन्नियमयति । एवमसद्वस्तुत्यागेऽपि विरत्यादिमहाफलम् । अन्यथा तु तत्तद्वस्तुग्रहणेऽपि पशूनामिवाविरतत्वं तत्तन्नियमफलेन वश्यते । न हि सकृद्धोज्यऽपि प्रत्याख्यानोच्चारं विनकाशनादिफलं लभते । असम्भवद्वस्तुनोऽपि नियमग्रहणेन कदाचित्कथञ्चित्तद्योगेऽपि नियमबद्धस्तन्न गृह्वात्यपीति व्यक्तं नियमफलम् । यथा-गुरुदत्तनियमबद्धेन वकचूलपलिपतिना क्षुधार्तेनाप्यरण्ये किम्पाकफलान्यज्ञातनामानि सार्थिकबहुबहुप्रेरितेनापि न जग्धानि, सा|र्थिकैस्तु जग्धानि, मृताश्च ते इति । तेन पक्षमेकद्वित्रिमासानेकद्यादिवर्षाणि वा यावद्यथाशक्ति नियमाःखीकार्याः ।
वङ्कचूलप्रबन्धस्त्वेवम्-ढीपुरीतिपुर्या विमलयशो-राज्ञः पुष्पचूला-पुष्पचूलाख्यौ पुत्री-पुत्रावभूतां । पुष्पचूलस्तु प्रकृत्योल्लुंठत्वाल्लो-टू कैवैकचूल इत्यभिधानं कृतं । तदौद्धत्यं महाजनादाकर्ण्य राज्ञा क्रोधेन नगरान्निःसारितो महारण्ये गतः । तस्य पत्नी खसापि च स्नेहेन तदनुगते । भिल्लैः स स्वपल्लयां नीत्वा स्वभूपः कृतः। एकदा तत्र सिंहगुहापल्लयां सूरयः प्रापुः। वर्षाकाले वसतिस्तत्पाबें तैर्याचिता । वकचूलः प्राह-'मम सीमानं यावद्धों न वाच्यः, मौनेनात्र स्थेयम् ।' त ऊचुः भवद्भिर्जीववधो न कार्यः' । तेन स्वीकृतं । चतुर्मास्यन्ते विहारसमयस्तस्मै ज्ञापितः। यतः-"समणाणं सउणाणं, भमरकुलाणं च गोकुलाणं च । अनिआओ वसईओ, सारइआणं च मेहाणं
॥३॥ ॥१॥" ततो गच्छद्भिस्तैः सह कञ्चित्प्रदेशं गत्वा स्थितः । सूरिस्तमाह-“हे भद्र ! त्वममुमभिप्रहं गृहाण, १-अज्ञातफलानि नाद्यानि, २-स-18 साष्टपदान्य(न)पसृत्य घातो (न) देयः, ३-राज्ञः खी न सेव्या, ४-ध्वांक्षमांसं (च)न खाद्यं इति।" सुकरत्वात्तेनात्तं व्रतैकदेशत्वं, गुरुन्नत्वा
Shree SudharmaswamiGyanbhandar-umara, Surat,
www.umaragyanbhandar.com