________________
एवं वर्षासु सर्वदिग्गमनं निषिद्धं । तदशक्ती यदा यासु दिक्षु गमनं विनापि निर्वहते तदा तहिग्गमनं त्यजेत् । गुर्जरदेशभजनाय गर्जनीशः शकानीकदुर्धरः प्रयाणमकरोत् । वत्स्वरूपं चरविज्ञप्तितो विज्ञाय चिन्ताक्रान्तोऽमात्यसहितो नृपो वसतिमेत्य गुरुमब्रवीत्-“यद्यहं सन्मुखमागच्छन्तं गर्जनीशं न यामि तदा देशभने लोकपीडा, गमने च नियमभङ्गः।" गुरुराह–'राजन् ! त्वदाराधितधर्म एव सहायस्तव, चिन्तां मा कृथाः' इत्याश्वास्य नृपं सूरिः पद्मासनासीनः परमदैवतं किश्चिदन्तातुं प्रचक्रमे । गते मुहूर्ते गगनाध्वनाऽऽयान्तं पल्यङ्कमद्राक्षीत् । अम्बरादुत्तीर्य स पल्यंकः सुप्तैकनरो गुरोः पुरः स्थिरस्तस्थौ, पल्यङ्कः कस्यायं ? इति प्रश्नपरं
भूपं यथास्थं गुरुर्बभाषे, सोऽपि शकाधीशः सुप्तोत्थितः सहसा विमृष्टवान्-"क तत्स्थानं ?, क सैन्यं !, कोऽयं ध्यानीन्द्रः ?, कोऽयं |नृपः ?,” इत्यादि चिन्तयति तावद्गुरुराह- "हे शकेश ! किं ध्यायसि।"-"एकातपत्रमैश्वर्य, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुर्वते त्रिदशा अपि ॥ १॥” साम्प्रतं स्वहितेच्छया देवैरप्यनुल्लकनीयशक्तिं शरणागतवनपञ्जरं धर्मात्मानं शरणीकुरु ।" ततो भयोद्वेगचिन्तालज्जादिना गर्जनीशः सूरीन्द्रं प्रणम्य श्रीकुमारभूपं नमश्चक्रे, ऊचे च–'राजन् ! ममापराधं तितिक्षस्व, अतः परं मया यावज्जीवं त्वया सह सन्धिरेव चक्रे ।त्वं मम जीवरक्षणेन जगज्जीवपालक इति बिरुदं सत्यं कुरु, पूर्व तव विक्रम श्रुतमपि विस्मृत्यात्रागतः, सम्प्रति जातुचिदपि त्वदाज्ञां नोल्लवयिष्ये । तुभ्यं स्वस्त्यस्तु, मां स्वाश्रमं प्रति प्रेषय, ।" राजर्षिः प्राह-"यदि स्वपुरे षण्मासीममारी कारयेस्तर्हि मुक्तस्त्वं ममैतदाज्ञाकारणं वान्छितं च यद्बलेन च्छलेनापि प्राणित्राणकरणं, तवापि च पुण्यं भावि” शकप्रभुबलिष्ठवाक्योलङ्घने न क्षमो जातः, ततः स्वसौधे त नीत्वा त्रिदिनी यावत् सत्कृत्य जीवरक्षार्थ शिक्षा दत्त्वा निजैराप्तैः समं नृपस्तं स्वस्थान प्रापयत् । जने षण्मासान् जीवरक्षा कारयित्वा नृपपुरुषाः शकेन्द्रविसृष्टा भूरिहयाद्यं प्राभृतं लात्वा स्वस्थानमागताः श्रीचौलुक्यमानन्दयामासुः।"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umarnigyanohandar.com