________________
आषाढ़चातुमो०
व्याख्यानम्।
॥२॥
ARRAR
अभिग्रहाः स्वीकार्याः । तत्र वर्षाचतुर्मास्यां पुनर्विशेषाद्विधिपूर्वकं ते ग्राह्याः। वर्षासु शकटखेटन-रथवाहिनी-हलखेटनादिनिषेधः कार्यः। भूमौ जलदजलस्पर्शतो हरिततृण-सूक्ष्मसम्मूर्छिममण्डूकी-पञ्चविधनीलफुल्लयलसीयक-शंखजीव-ममोला-कात्रा-चूडेलगुच्छ-भूमिच्छत्रायनेकजीवोत्पत्तिसम्भवः स्यात् , तजन्तुरक्षार्थमभिग्रहो विधेयः । कदाचित्तेनैवाजीविका भवेत्तदा एकादिक्षेत्रखेटनादधिकं नियम्यं । यथा-मुख्यवृत्त्या वर्षाकाले सर्वदिग्गमननिषेध उचितः, कृष्ण-कुमारपालादिवत् । यतः- "दयार्थ सर्वजीवानां, वर्षाखेकत्र संवसेत् ।” पुरा श्रीनेमिजिनोपदेशाच्छ्रीकृष्णनृपो द्वारकाया बहिर्निर्गमनियमं जग्राहेति । कुमारपालनृपस्तु श्रीहेमचन्द्र(सूरि)वचनात्"दर्शनं सर्वचैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि घनागमे ॥१॥
वाचा युधिष्ठिरः श्रीमान् , निजमगीकृतं व्रतम् । न तत्याज चौलुक्य-सिंहः कार्ये महत्यपि ॥२॥ __ आगच्छन्तं शकाधीशं, देशभङ्गविधित्सया । ज्ञात्वा साभिग्रहो राजा, नैति वर्षासु सम्मुखः॥३॥ राज्ञो धर्म स्थिरीकर्तु, बद्धा निन्येऽत्र सूरिणा। षण्मासी जीवरक्षायाः, पणे मुक्तः कृपालुनो ॥४॥” इति।।
१ एतयतिकरस्त्वेवम्-"पत्तने श्रीहेमसूरिभिः कुमारपालपुरः षष्ठं व्रतमित्थं वर्णितं- 'विवेकिना सर्वदापि जीवदयार्थ षष्ठं व्रतं प्राह्यं । विशेषतश्च वर्षासु, यत:-'दयाथै सर्वजीवानां, वर्षास्वेकत्र संवसेत् ।' पुरा श्रीनेमिजिनोपदेशाच्छ्रीकृष्णः पुरावहिर्ग४ मननियम जमाह ।" तदाकर्ण्य चौलुक्यसिंहोऽपि नियम बभार । तद्यथा-"दर्शनं सर्वचैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा
पुरेऽपि न प्रायो, भ्रमिष्यामि धनागमे ॥ १॥" इति तस्य नियमः सर्वत्र प्रपथे, अथ तमभिग्रहं गुर्जरसमृद्धिं च चरेभ्यो ज्ञात्वा
॥
२
॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com